________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
अष्टसहस्री विवरणम् ।। ॥ २२७॥
AAAAAAAAG
इति, तत्र नेयत्वेऽपि प्रमेयत्वाभावान व्यभिचार इत्यर्थः । अनयैव रीत्या प्रमेयत्वेऽपि न व्यभिचारः, विशिष्टधर्मावच्छि
परिच्छेदः नाधिकरणताकाभावाभ्युपगमान्नेयत्वविशिष्टप्रमेयत्वे प्रमेयत्वाभावाद् व्यभिचारलक्षणे साध्याभावतद्वदत्तित्वयोरेकाबच्छेद
प्रथमः॥ प्रवेशेन चानतिप्रसङ्गामयदृष्ट्या वैज्ञानिकसम्बन्धगर्भवाद्वा तस्येत्यभिप्रायवानाह-एतेनेति' (२२६-१-१) शुद्धप्रमेयत्वस्य तु पक्षान्त तत्वादेन तत्र न व्यभिचार इत्याह-प्रमाणविषयस्य त्विति (२) इदमापाततः, निष्कृष्टरीत्या शुद्धेऽपि तत्राव्यभिचारादिति बोध्यम् । पक्षत्वेऽपि हेतुत्वाव्याहतौ प्रकारमाह-'स्वपरानन्तेत्यादि' (२) साध्यान्यथानुपपन्नत्वमेव हेतुत्वप्रयोजकम् , न तु पक्षबहिर्भूतत्वमपि, पृथिवीत्वस्येव तादात्म्येन पृथिव्याः पृथिवीतरभेदहेतुत्वप्रसिद्धेरिति न कोऽपि दोष इति भावः । | विधानादिः (३) अभिलापादिः, प्रवृत्त्यादिः (३) तत्प्रकारकेच्छाप्रयोज्यप्रयत्नादिः, तदज्ञानविच्छित्तिः ( ४ ) संस्कारविशेषाधानम् , तद्गुणभावः (७) सामान्यस्य धर्मित्वे प्रकृतेतरानन्तधर्मात्मकत्वस्य संसर्गतया भानात् संसर्गघटकत्वेनाप्रधानत्वम् , स्वेतरानन्तधर्मसंवलितत्वेन प्रकृतधर्मभानाभ्युपगमे तु विशेषणतया तेषामेवापोद्धारेण धर्मित्वविवक्षायां तु प्रकारतयाऽभासमानत्वेनेति बोध्यम् । स च प्रतिपत्तृविवक्षाधीन इति तत्वम् । युक्त एवेति (७) प्रकारभेदेन भङ्गान्तरबोधस्य वैलक्षण्यात् स्वजन्यबोधसमानाकारबोधवैधुर्यलक्षणाया आकाङ्क्षाया अक्षतत्वादिति भावः, तदाह-'प्रतिधर्ममिति' (७) स्वभावभेदोपपत्तेरिति (८) "अर्थेनैव धियां विशेष" इति न्यायात् , तथाप्रकारस्वभावभेदे सत्येव तथाप्रकारिस्वभावज्ञानोपपत्तेरित्यर्थः। व्यतिरेके बाधकमाह-यदि पुनरित्यादिना (८), भ्रान्तः (१२) भेदवासनाजनितभ्रमशालिभिः। 'विरोधादिति' (१३) | एकधर्मिविषयकज्ञाने अनेकगुणाभेदविषयकत्वस्यैकत्र धर्मिण्यनेकगुणात्मकत्वस्य च विरोधग्रस्तत्वादिति भावः । वस्तुगत्याऽखि- II २२७॥
For Private And Personal Use Only