SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कल्पोत्पत्तिरेवास्तु, न चैवं, तदन्यव्यावृत्तावेव विकल्पोत्पत्तेः । यदि पुनरसत्त्वादिव्यावृत्तीनामदर्शनेपि तदनादिवासनावशादेव तद्विकल्पोत्पत्तिरुररीक्रियते तदा नीलादिरूपादर्शनेपि तद्वासनासामर्थ्यादेव नीलादिविकल्पोत्पत्तेस्ततो नीलादिरूपव्यवस्था मा भूत् । तद्वत्सुखादिव्यवस्थितिरपि कुतः संभाव्येत ? स्वसंवेदनव्यवस्था च तन्निश्चयोत्पत्तेर्दुर्घटैव । तदनुत्पत्तौ सुतरां तदव्यवस्था स्वर्गप्रापणशक्त्यादिवद्वेद्याकारविवेकवद्वा । स्वरूपस्य स्वतो गतिरित्यपि तथा निश्चयानुत्पत्तौ न सिद्ध्येद्ब्रह्माद्वैतादिवत् । ततः कुतश्चिन्निश्चयाद्वस्तुस्वभावभेदव्यवस्थायां सत्त्वादिनिश्चयाद्वस्तुनि परमार्थतः सत्त्वादिधर्मभेदव्यवस्थितिरभ्युपगन्तव्या, अन्यथा कचिदपि व्यवस्थानासिद्धेः । परमार्थतः सत्त्वादिधर्मव्यवस्थितौ च सत्यां साधीयसी सत्त्वादिसप्तभङ्गी, सुनयार्पितत्वात् ॥ २२ ॥ ' धर्मस्यैवेति ' ( २२५-२-१२ ) द्रव्यभिन्नपदार्थान्तरीभूतधर्माभ्युपगम एव हि व्यभिचारः स्यात् स तु नास्माकं विवक्षानुसारित्वाद्धर्मधर्मिभावस्येति नोक्तदोषोपनिपात इति भावः । ' न हीति ' (१३) न चैवं सत्त्वादीनां प्रमेयत्वाद्यपेक्षया धर्मित्वे 'निर्गुणा गुणा' इति प्रवादो व्याहन्येतेति वाच्यम्, द्रव्यत्वनियामकसम्बन्धेन गुणे गुणाभावेऽपि सम्बन्धान्तरेण तदुपगमे दोषाभावात् । न चाभेदैक्ये सम्बन्धाविशेषः, घटाभावे घटाभाव इति वत् घटे घट इति प्रतीत्यभावेन यथाप्रतीत्य भेदशक्तीनामपि नानात्वोपगमादिति द्रष्टव्यम् । 'न चैवमिति' (१३) एवं धर्मस्यानन्तधर्मप्रकारैर्द्धर्मित्वे धर्मिणश्चानन्तधर्म्यपेक्षया धर्मत्व इत्यर्थः । 'वलयवदिति' (१४) भ्रमणकाले वलयस्य पूर्वभागो यथा भवत्यपरोऽपरश्च पूर्वस्तद्वदित्यर्थः, अभव्यसंसारवद्वेति (१४) यथाऽभव्यस्य तत्तत्संसारपर्यायैर्गृहीतमुक्तैर्नानवस्थितिस्तद्वदित्यर्थः, अनेन दृष्टान्तद्वयेन धर्मधर्मिभावानवस्थायाः प्रामाणिकत्वाददोषत्वमित्युक्तं भवति, धर्मिणो बुद्ध्या पृथकृते धर्मे व्यभिचारमाशंक्य निषेधति-न च धर्मिण (१४) For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy