________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
प्रतिपादनेन, साध्यधर्मिधर्मस्य (२१८-२-९) पक्षस्य, तस्मादिति (२१९-१-१) यदभिधेयं तद्विशेष्यमित्यनया व्याप्त्या यथा जीवादेद्धर्मित्वं तथाऽस्तित्वादिविशेषणस्यापि तदापादितं बोध्यम् । अन्तदीपकं (५) अन्तस्थं सर्वत्रान्वयं प्रकाशयतीति हेतोः, सर्वत्र योज्यं साधनमिति (५) धर्मिणं विविच्येत्यर्थः, तथाहि-यदभिधेयं तद्विशेष्यमित्यत्रास्तित्वं धर्मि, यद्वा विशेष्यं तदभिलाप्यमित्यत्राभिधेयं धर्मि, यद्वा वस्तु तत्सर्व विधेयप्रतिषेध्यात्मकमित्यत्र विमत्याधिकरणसवाभिधेयत्वादिशब्देन लब्धं जीवादीति, तेषु धर्मिष्वभिधेयत्वविशेष्यत्ववस्तुत्वहेतवो योजनीयाः । निगमयति वस्तु चेति (५) ॥१९॥
शेषभङ्गाः कथं नेतव्याः सूरिभिरित्याहुः।शेषभङ्गाश्च नेतव्या यथोक्तनययोगतः। न च कश्चिद्विरोधोस्ति मुनीन्द्र ! तव शासने ॥ २०॥ |
स्यादस्ति स्यान्नास्तीति भङ्गद्वयमुपयुक्तम् । तदपेक्षया शेषत्वं भङ्गत्रयापेक्ष वा । विधेयप्रतिषेध्यात्मेत्यनेन तृतीयभङ्गस्य स्वप्रतिपेध्येनाविनाभाविनोऽसाधने साधने चापेक्ष्यमाणे इत्यर्थः । यथोक्तनययोगत इति विशेषणत्वादीनाक्षिपति । तदनभिलाप्यादयोपि कचिद्धर्मिणि प्रत्यनीकस्वभावाविनाभाविनः प्रतीयन्ते, विशेषणत्वादिभ्यः । पूर्वोक्तमुदाहरणम् । यथैव हि वस्तुनोस्तित्वं नास्तित्वं तदुभयं च प्रतिषेध्येन स्वप्रत्यनीकेनाविनाभावि विशेषणत्वाद्विशेष्यत्वाच्छब्दगोचरत्वाद्वस्तुत्वाच्च साधर्म्यवद्वैधर्म्यवत्वचिद्धेतौ हेतुत्वेतरत्ववच्च साध्यते, तथैव चाऽवक्तव्यत्वं वक्तव्यत्वेन प्राच्यभनत्रयरूपेण, सदवक्तव्यत्वमसदवक्तव्यत्वेनासदवक्तव्यत्वमपि सदवक्तव्यत्वेन, सद-17 सदवक्तव्यत्वमपि पञ्चमषष्ठभङ्गात्मनानुभयावक्तव्यत्वेनाविनाभावि साधनीयम् , यथोक्तानां हेतूदाहरणरूपनयानां घटनात् । न चैवं सति किश्चिद्विप्रतिषिद्धम् , अन्यथैव विरोधात् । अवक्तव्यत्वादेः स्वप्रत्यनीकस्वभावाविनाभावाभावप्रकारेणैव हि प्रत्यक्षादिविरोधः समनुभू
For Private And Personal Use Only