________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ।।
॥ २२१ ।।
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिष्यते । प्रयोगपरिपाटी तु, प्रतिपाद्यानुसारतः ॥ १ ॥ " इति, समयबन्धोऽपि प्रसिद्ध प्रसिद्धी एवानुरुणद्धीति शिवम् ॥ तदेवमपेक्षया गमकागमकस्यैकस्य हेतुत्वाहेतुत्ववजीवादेरपेक्षया सच्वेतरात्मकत्वं निर्व्यूढम् । प्रकृतं प्रस्तुमः - तद्वदिति (२१८-१-५) हेतुवदित्यर्थः, वस्तुत्वस्योभयप्रसिद्धस्येति (६) विशेषणविशेष्यभावविपर्यासादुभयप्रसिद्धस्य वस्तुत्वस्य हेतोरित्यर्थः । सामर्थ्यतः (७) पक्षदृष्टान्तवचनप्रयुक्ताक्षेपात् तान् प्रति (७) तदुभयासत्त्चवादिनः प्रति, तत एव (७) जीवाद्यर्थो विधेयप्रतिषेध्यात्मा वस्तुत्वादित्यनुमानादेवेत्यर्थः । विकल्पबुद्धौ (८) सविकल्पकज्ञाने, तद्व्यवहारप्रसिद्धेः (८) व्यवहारौपयिकतदाकारोपलम्भात्, सांशस्य (९) विधिनिषेधविशेषणविशिष्टस्य, सविकल्पकत्वं साधयत इति (१२) ज्ञानमात्रस्य विधिनिषेधान्यतमविशिष्टविषयकत्व नियमादित्यर्थः, तस्य (१३) स्वलक्षणस्य, भेदाभावे (१३) विशेषणोपरागाभावे, सामान्यम् (२१८-२-३) ऊर्ध्वतासामान्यं विशेषादेशे घटादिद्रव्यम्, एतत् (४) प्रत्यक्षेण ग्रहणम्, असम्भवादित्यस्य (४) ग्रहणस्येत्यनेनान्वयः । इति प्रतीतिक्रमस्यैवेति (६) सौगताद्युक्तस्येति गम्यम्, निर्बाधम् (७) इत्यनन्तरमादित एवेति शेषः । तद्विपरीतस्य (७) विशेषणविशेष्यभावादिशून्यस्य, जातुचिदप्रतीतेरिति (७) निर्विकल्पकस्य निरासादित्यर्थः, येन च तत् स्वीक्रियते तस्य सविकल्पकोत्पत्तिकाले तदापत्तिर्दुर्निवारा, न च निर्विकल्पकत्वस्य कार्यतानवच्छेदकत्वान्नैवम्, तथाऽप्यर्थवशात् तदापत्तेः, निर्विकल्पके घटत्ववद् द्रव्यत्वपृथिवीत्वसच्चादीनामपि सम्भृतसामग्रीकतया भानाभ्युपगमे घटसविकल्पके नियमात्तावद्धर्मभानापत्तेश्च तत्तन्नियतप्रकारकप्रत्यक्ष एव क्षयोपशमविशेषहेतुताकल्पने तु विशेषहेत्वभावादेव न निर्विकल्पकमिति दिग् । प्रत्यासन्नेतरपुरुषदर्शनवदिति, (८) अत्रैकपादप इति शेषः । एतेन (८) सामान्यविशेषात्मकवस्तुनः प्रत्यक्षत्व
For Private And Personal Use Only
परिच्छेदः प्रथमः ॥
॥ २२१ ॥