________________
Shri Maharlain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersun Gyanmandi
प्रभववढेरेव धूमव्यापकत्वात्तद्रूपेण बढेरनुमितौ भानाभ्युपगमेऽपि न कूटलिङ्गजानुमितेरसत्यत्वम् , दैवाचत्र धूमसत्त्वेन सत्यत्वादिति चेत्, अत्र वदन्ति, स्वज्ञानदशायां पक्षे साध्यप्रत्ययाजनकत्वमगमकत्वम् , भवति हि विरुद्धत्वादिज्ञानकालीनं लिङ्गं पक्षे साध्यप्रत्ययाजनकम् , विरुद्धत्वादीति पक्षविशेषणमहिम्ना तद्दशायां पक्षे साध्यप्रत्ययाजनकत्वसिद्धिः, साध्यप्रत्ययाजनकत्वं साध्यप्रत्ययजनकतावच्छेदकरूपविरहा, सच कदाचित् सत्प्रतिपक्षोत्तीर्णेऽपीति स्वज्ञानकालीनत्वं विशेषणम् , स च न तादृशोऽन्यदा तज्ज्ञानरूपविशेषणाभावेन विशिष्टाभावात् , स्वज्ञानकालस्य पक्षतावच्छेदकत्वेन साध्यमध्येऽप्रवेशाविरुद्धत्वादेः स्वज्ञानविरहकाले विशिष्टाभावान व्यभिचारित्वम् , नच कदाचिदजनकत्वादेः केवलान्वयित्वमादाय व्यर्थविशेषणता, विवक्षितसाध्यस्यासार्वत्रिकत्वात् , न च सर्वो बहिव्याप्यवान् वह्विमान् तत्वादित्यनुमानेन स तदभाववान् मेयत्वादित्यादिना सत्प्रतिपक्षण सर्वस्यैव सत्प्रतिपक्षितत्वात्तस्य सार्वत्रिकत्वमेवेति वाच्यम् । सर्वत्र सर्वस्यैवमवताराभावात् । यद्वाऽनुमितिप्रतिबन्धकतावच्छेदकरूपवत्त्वं तत् , तद्वत्वं च तद्वर्त्तमानत्वमतो न सत्प्रतिपक्षोत्तीर्णेऽतिप्रसङ्गः, तस्यासार्वत्रिकत्वाच्च न विरुद्धत्वादौ व्यर्थविशेषणता, तच्च रूपं ज्ञाने विषयतयाऽनैकान्तिकत्वादिकमेवेत्यनुमितिप्रतिबन्धकज्ञानविषयतावच्छेदकरूपवत्त्वमगमकत्वमिति पर्यवसितोऽर्थः, न च साध्याप्रसिद्धावव्यापकमिदमिति शङ्कनीयम् , स्वज्ञानदशायामिति वचनादेव तदसंग्राह्यत्वलाभात , तस्याः शुद्धापार्थकमध्ये परिगणनेन हेत्वाभासेभ्यः पृथक्करणात् , नायं पन्थाः, एवं सति हेत्वाभासत्वमेवागमकत्वमित्यस्य प्राप्तः, सोपाधिकत्वादिना ज्ञातेऽगमकत्वव्यवहारानापत्तेः, किन्तु सर्वानुगतमखण्डमेव तत् , तच्चानैकान्तिकत्वादिनानुमीयते, सत्प्रतिपक्षविषये तदुत्तीर्णे च गमकागमकत्वस्वभावभेदविरोधः स्याद्वादाश्रयणादेव निरसनीयः, अस्तु वा सत्प्रतिप
For Private And Personal Use Only