SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir परिच्छेद: प्रथमः॥ अष्टसहस्री विवरणम् ॥ ॥ २१९॥ साध्यप्रमाया अपि जननाच, कदाचित्तदजनकत्वस्य सद्धेतावपि सत्त्वात् , न चैतत्काले साध्यविशिष्टपक्षज्ञानाजनकत्वं तत्, न हि दूषणत्वज्ञानकाले पक्षे भ्रमरूपाप्यनुमितिरिति वाच्यम् , सत्प्रतिपक्षत्वज्ञानकाले पक्षे साध्यविशिष्टप्रत्ययाजनकत्वमस्तीत्यनन्तरमसत्प्रतिपक्षतादशायामपि हेतोरगमकत्वप्रसङ्गात् , दूषणत्वस्यागमकत्वतुल्ययोगक्षेमत्वाच्च, नाप्येतत्कालीनैतत्पक्षीयत्वावच्छिअप्रतियोगिकैतत्साध्यप्रमाकरणत्वाभावस्तत्, एतत्कालीनत्वैतत्पक्षीयत्वयोयधिकरणयोरेव प्रतियोगितावच्छेदकत्वाच्च न विशिष्टप्रतियोग्यप्रसिद्धिरिति वाच्यम् , सद्धेतोरेव कदाचित्तादृशप्रमाकरणत्वाभावेनागमकत्वापत्तेः, नाप्यनुमितिहेतुभूताभावप्रतियोगिज्ञानविषयत्वं तत् , सद्धेतावपि कदाचिद् व्यभिचारित्वादिज्ञानस्यानुमितिप्रतिबन्धकस्य सद्भावात् , नाप्यनुमितिप्रतिबन्धकप्रमाविषयत्वं तत् , सद्धेतौ चव्यभिचारादिभ्रमस्य प्रतिबन्धकत्वान्नातिव्याप्तिरिति वाच्यम् , सत्प्रतिपक्षयोर्विरुद्धयोस्तिवतुल्यबलवत्त्वाभावेन तद् भ्रमस्याप्रतिबन्धकत्वात् , नापि समीचीनसाध्यपक्षविषयानुमित्यजनकत्वं तत् , वाधविरुद्धासिद्धेषु साध्यानधिकरणे पक्षे सत्यसाध्यप्रतीत्यसिद्धेः, वह्निमति बाष्पे धूमभ्रमाद्वयनुमितेः सत्यत्वाच, न चान्य एव वह्निस्तत्र भासते, मानाभावात्, तद्बह्वेरेव प्रत्यभिज्ञानात्, एकव्यक्तिके तदभावाच्च, नच साऽनुमितिर्लिङ्गविषयत्वेन भ्रमः, अनुमितौ नियमतो लिङ्गभाने मानाभावात् , अथ यथा कूटलिङ्गे वह्निव्याप्याभेदःप्रतीयते तथा वह्नौ कूटलिङ्गव्यापकाभेदोऽपीति सानुमितिरसत्येति चेत्, न, कूटलिङ्गस्यानुमितौ साध्याप्रकारकत्वेन तदभेदस्यासंसर्गत्वात् , वहिव्याप्यालोके धूमारोपाद्यत्रानुमितिस्तत्रासिद्धभेदेऽसत्यत्वाभावापत्तेश्च, आलोकव्यापके धूमव्यापकाभेदसाम्राज्यात् , एतेन परामृश्यमानलिङ्गव्यापकाभिन्नीयत्वविशिष्टसंसर्गेण साध्यस्यानुमितौ भानाभ्युपगमेऽपि न क्षतिः। लिङ्गोपहितलैङ्गिकभानवादेऽपि चदैवात्तत्र धूमसत्त्वे कथं तदंशेऽप्यसत्यता, अत एवार्टेन्धन ॥ २१९ ॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy