SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir कचिद्धर्मिणि, यथा साधय भेदविवक्षया कृतकत्वादी, विशेषणं चास्तित्वं, ततः प्रतिषेध्यधर्मप्रतिबन्धि इत्यनुमानमनवद्यमवतिष्ठते, हेतोरसिद्धताद्यनुपपत्तेः, साध्यसाधनधर्मवैकल्याभावाञ्च निदर्शनस्य, प्रत्यक्षादिविरोधाभावाच पक्षस्येति प्रतिपत्तव्यम् ॥ १७॥ अथ प्रकृतं-'अस्तित्वमिति' (२१३-१-३) अस्तित्वं प्रतिषेध्येन नास्तित्वेन, एकधर्मिण्यविनाभावीति साध्यम् , एककालेऽविनाभावेन सिद्धसाधनवारणार्थमेकधर्मिणीति, विशेषणत्वादिति (३) हेतुः । अस्तित्वनास्तित्वोभयघटितधर्मिविशेपणत्वादित्यर्थः । अन्यथा नीलादावुत्पलादिविशेषणे चैतन्ये च जीव विशेषणेऽनीलाचैतन्याविनाभावस्य धर्मिण्यप्रसिद्ध्या लोकदृष्ट्या व्यभिचारस्य स्पष्टत्वात्पररूपेण तदविनाभावस्य च साध्यसमत्वादिति द्रष्टव्यम् । यत् स्वस्वेतरयदुभयघटितयद्धर्मिविशेषणं तत्तत्र तेनाविनाभावि, यथान्वयव्यतिरेकव्याप्तिद्वयघटितव्याप्यविशेषणमन्वयव्याप्तिरूपं साधयं व्यतिरेकव्याप्तिरूपवैध येणाविनाभावीति, दृष्टान्तप्रदर्शनम् , भेदविवक्षयेति साधोपन्यासनियमार्थम् , बहिर्व्याप्तिरूपभेदविवक्षया हि साधर्म्यमुपन्यस्यते, अन्तर्व्याप्तिरूपाभेदविवक्षया तु वैध→मिति, भाष्ये व्यतिरेकोऽस्त्येवेति (२१३-१-७) तथा चैतन्नये केवलान्वयी नास्त्येवेति भावः। तथैवेति' (१२) अप्रमेयत्वव्यवहारस्य प्रमाणजन्यज्ञानविषयत्वरूपप्रमेयत्वासाधकत्वादेवेत्यर्थः, न च व्यवहारेण ज्ञेयत्वसिद्धौ प्रमेयत्वसिद्धिप्रौव्यम् , एतन्नये ज्ञेयत्वस्य प्रमेयत्वाव्याप्यत्वात् । अनादिविपरीतवासनाजन्यविकल्पविषये व्यभिचारादिति, सन्तः खपुष्पादयो व्यवहियेरन्निति (२१३-२-३) खपुष्पादिषु सत्त्वव्यवहारः प्रसज्येतेति भावः। विप्रतिषिद्धमेतदिति (४) भाष्यप्रतीके किमित्याकाङ्क्षायामाह वृत्तिकृत् खपुष्पादीनां प्रमेयत्वमिति(४) खपुष्पं प्रमेयं चेति वचनं परस्परविरुद्धमित्यर्थः । कस्मादित्याह-प्रमाणद्वयनियमविरोधादिति (५) तर्हि प्रमाणान्तरेण तेषु प्रमेयत्वं SEARCHANA For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy