________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
बष्टसहस्री विवरणम् ॥ ॥२१४॥
परिच्छेदः प्रथमः॥
परस्मिश्चाविद्यमानमाकारं दर्शयतीति युक्तं वक्तुम् , नान्यथा, अप्तिप्रसङ्गात् । यदि पुनरनाद्यविद्योदयादखिलजनस्यासहायरूपानुपलब्धिर्जाततैमिरिकस्यैकचन्द्रानुपलब्धिवदिति मतम् , तदा "गुणानां सुमहद्रूपं न दृष्टिपथमृच्छति । यत्तु (च) दृष्टिपथप्राप्तं तन्मायेव सुतुच्छकम् ।।१।। सर्व पुरुष एवेदं नेह नानास्ति किश्चन । आरामं तस्य पश्यन्ति न तं कश्चन पश्यति ॥ २॥” इत्यपि किन्न स्यात् ? सर्वथाप्यविशेषात् । तदियं संवृतिः सामान्यसामानाधिकरण्यविशेषणविशेष्यभावादिव्यवहारनिर्भासान्बिभ्रती स्वयमनेकरूपतां प्रतिक्षिपन्तं व्यवस्थापयति, तामन्तरेण सामान्यादिव्यवहारनिर्भाससंवृत्यनुपपत्ते; तद्वद्भावान्तराणामनेकान्तात्मकत्वे वास्तवी साधर्म्यवैधादिस्थितिरविशेषेण विकल्पबुद्धेर्मिथ्यात्वं प्रतिजानन्तं प्रतिक्षिपत्येव, संवृतेः स्वरूपेऽनेकान्तात्मकत्वं, न तु ततोन्येषां भावानामिति विभावयितुमशक्तेः । ततो न स्वलक्षणमेवान्यापोहः संभवति येन खपुष्पादयः प्रमेयाः स्युः । यत्पुनरेतदन्यतो व्यावृत्तिरनात्मिकैवेति, तन्न, चक्षुरादिज्ञानस्य निर्व्यवसायात्मकस्य स्वयमभूताविशेषात् , निर्णयस्य भावस्वभावासंस्पर्शिनः सर्वथा वस्तुतत्त्वापरिच्छेदादिदमित्थमेवेति स्वयमेकान्तानुपपत्तेः । सोयं चक्षुरादिज्ञानाद्वस्तुतत्त्वमध्यवस्यन्सकलविकल्पाध्यवसेयामन्यब्यावृत्तिं सर्वथानात्मिकामाचक्षाणः कथमिदमेव वस्तुतत्त्वमित्थमेवेति वा स्वयं प्रतिपद्येतान्यं वा प्रतिपादयेदिति सविस्मयं नश्चेतः । अतोयं भावः स्वभावभेदान्विधिप्रतिषेधविषयान्बिभ्राणः प्रत्यक्षतरप्रमाणसमधिगतलक्षणः प्रतीयेत प्रमेयः, खपुष्पादयस्त्वप्रमेया इति प्रमेयत्वादिहेतावपि व्यतिरेको विद्यते एव । सर्वस्य परिणामित्वादौ साध्ये सपक्षेऽन्वयो न संभवत्येवेति चेत् , न, अन्तर्व्याप्तिलक्षणस्य तथोपपत्तिरूपस्यान्वयस्य सद्भावादन्यथानुपपत्तिरूपव्यतिरेकवत् । न हि दृष्टान्तधर्मिण्येव साधयं वैधयं वा हेतोः प्रतिपत्तव्यमिति नियमो युक्तः, सर्वस्य क्षणिकत्वादिसाधने सत्त्वादेरहेतुत्वप्रसङ्गात् । यतश्चैवं सर्वत्र हेतौ साधयं वैधयेणाविनाभावि प्रसिद्धमुदाहरणं तस्माद्यद्विशेषणं तत्प्रतिषेध्याविनाभावि
|
|२१४॥
For Private And Personal Use Only