SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्री विवरणम् ॥ ॥ २१२ ॥ www.kobatirth.org शिंतत्वादिति युक्तं पश्यामः । एतेन - “ इच्छइ विसेसियतरं पञ्चुप्पण्णं णओ सद्दो" इतिनियुक्तिप्रतीके ऋजुसूत्राद्विशेषिततरत्वं शब्दस्य सप्तभङ्ग्याक्रान्ततया यन्महाभाष्यादावुपदर्शितं तदविरुद्धमित्युक्तं भवति, वक्तव्यत्वातिरिक्तस्थले तत्सावकाशताया न्याय्यत्वाच्छन्दावच्छिन्नार्थग्राहित्वेन च शब्दनयस्यार्थनयत्वानापत्तेरिति भावनीयम् ॥ १॥ यद्वा व्यञ्जनपर्याये व्यअनपर्याषग्राहिणि शुद्धशब्दनये एवंभूताख्ये देशप्रदेशकल्पनारहिताखण्डवस्त्वभ्युपगमपरे देशाश्रितोत्तरभङ्गचतुष्टयायोगादाद्येषु त्रिष्ववस्थितेषु एकसम्बन्धिज्ञानेऽपरसम्बन्धिस्मरणमिति न्यायेन पदज्ञानोपस्थितानामर्थानामिवार्थज्ञानोपस्थितानां पदानामपि शाब्दबोधप्रवेशधौव्ये ऽवक्तव्यत्वभङ्गस्य मूलत एव लोपात् सविकल्पो व्यतिरेकसहितो निर्विकल्पश्च तद्रहितो वचनमार्ग इत्येवमाद्यभङ्गद्वयमेवावशिष्यत इति व्याख्येयम् ॥ २ ॥ यद्वा व्यञ्जनपर्याये विशेषापेक्षया स्थूलव्यञ्जनपर्यायग्राहिणि व्यवहारकृतभेदसङ्कोचपरे सङ्ग्रहनये सविकल्पो निर्विकल्पचेत्याद्यभङ्गद्वयात्मक एवं वचनमार्गः, यैरुपाधिभिरवक्तव्यं तैरसत्त्वस्यैवाश्रयणात् इत्थमेव विरुद्धघटत्व पटत्वाभ्यामभावस्य केवलान्वयित्वप्रवादोपपत्तेः, तथा जिज्ञापयिषया गुरोरपि शिष्यं प्रति तृतीयभङ्गस्थाने द्वितीयभङ्गस्यैव प्रयोगार्हत्वात्, आद्यभङ्गे सामान्यबुबोधयिषारूपतया भङ्गद्वय एव वाक्यपर्याप्तौ च संजिघृक्षारूपतया वक्त्रभिप्रायात्मक सङ्ग्रहव्यापारद्वैविध्योपपत्तेर्महावाक्यावान्तरवाक्यरूपनिमित्तभेदात्, देशाश्रिता भङ्गा अपि चात्र देशिनिष्ठतया संग्राह्याः, अन्यथैकवचनबहुवचनादिनाऽऽधिक्यापत्तेरिति सर्वमनवद्यम् ॥ ३ ॥ “ मतद्वयेऽपि व्याख्यातां, सप्तभङ्गीमिमां मया । बुधाः ! सुधावदास्वाद्य, सन्तु सौहित्यशालिनः ॥ १ ॥ अमुष्मिन्नेतावत्यखिलनयसम्मर्दगहने, महातर्फे कस्य प्रभवति परिच्छेदधिषणा ॥ तथाप्यन्तः श्रीमन्नयविजयविज्ञांहि भजने, न भग्ना For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir परिच्छेदः प्रथमः ॥ ॥ २१२ ॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy