SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shil Kalassagarsur Gyanmandir चतुर्थेष्वनभिधेयसंयोजनया पश्चमषष्ठसप्तमाः । यद्वा अस्या गाथाया भिन्नस्तात्पर्यार्थो वृत्तिद्भिद्भावितः, तथाहिअर्थनय एव सप्तभङ्गाः, शब्दादिषु तु त्रिषु नयेषु प्रथमद्वितीयावेव भङ्गो, वक्त्रभिप्रायो हि सङ्ग्रहादिरर्थप्रधानोऽर्थनयः, परार्थशब्दश्रवणोद्गतः शब्दादिश्रोत्रभिप्रायश्च शब्दप्रधानार्थोपसर्जनत्वात् शब्दनयः। तत्र शब्दसमभिरूढापेक्षया सविकल्पको वचनपथः, संज्ञाक्रियाभेदेनाभिन्नार्थप्रतिपादकत्वेऽपि भेदजिज्ञासारूपविकल्पसाहित्यात् , एवंभूतस्तु क्रियाभेदाद्भिन्नमेवार्थ तत्क्षणे स्थापयतीति निर्विकल्पकः, तदुत्तरं भेदजिज्ञासारूपविकल्पविरहादिति भङ्गद्वयमेवावतिष्ठते, अवक्तव्यत्वभङ्गस्तु व्यञ्जननये न सम्भवत्येव, तस्यार्थप्रतिपत्तुः शब्दश्रवणोद्गताभिप्रायविशेषत्वात् , अवक्तव्यत्वस्य तु शब्दामावविषयत्वादिति । अत्र यद्यपि शब्दानुपलब्धिगम्यस्याप्यवक्तव्यत्वस्यानुमानादिगम्यार्थस्येव प्रमाणसम्प्लववादिना शब्दप्रमाणविषयत्वं नायुक्तिमत् , व्यअनपर्याये सप्तभल्ल्यभावे च तस्या व्यापकत्वप्रवादस्याप्रामाणिकत्वापत्तिः, तथापि वक्तव्यत्वरूपे व्यञ्जनपर्याये प्रतिपक्षेणा| वक्तव्यत्वेन सह भङ्गद्वयमेव भवति, अवक्तव्यत्वोपाधीनां बुद्धिविशेषानुगतानां यावतामेव स्यात्पदेनोपस्थितिसम्भवे तृतीयभङ्गस्यानतिप्रयोजनत्वात् , सप्तभङ्ग्या व्यापकत्वप्रवादस्यार्थपर्यायमादायैवोपपत्तेः, एवमवक्तव्यत्वसप्तभङ्ग्यामपि तृतीयभङ्गस्य प्रथमभङ्गे प्रवेशाद् भङ्गद्वयपरिशेषो व्याख्येयः, तस्यापि व्यञ्जनपर्यायत्वात् , व्यञ्जनपर्यायशब्देन व्यञ्जनपर्यायनिछुप्रतियोग्यनुयोगिभावसम्बन्धाश्रयस्यैव ग्रहणात् , न च भङ्गद्वये स्याद्वादहानिः, सप्तभङ्ग्या एव स्याद्वादत्वादिति शङ्कनीयम् , को जीव इत्यादिप्रश्ने स्यादौपशमिकादिभावयुक्तो जीव इत्यायेकमचोत्तरेऽपि स्यात्कारलाञ्छनतया स्याद्वादत्वस्य मलयगिरिप्रभृतिभिरभियुक्तैः समर्थितत्वात् , उत्थाप्याकासया यथाकथञ्चित्सप्तभङ्ग्यवतारस्य सुलभतायाश्चस्माभिर्नयोपदेशादौ प्रद For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy