________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailasagarsur Gyanmandir
kahRMERRORS-
456
उभयप्रधानावयवामेदेनार्पितं स्वाश्रयसमवायित्वरूपपरम्परासम्बन्धावच्छिन्नधर्मद्वयप्रकारतानिरूपितकविशेष्यताकौपादानिकबोधेच्छाविषयीकृतमिति यावत् , यथाश्रुते घटपदस्य देशपरस्यावृत्त्या प्रकारताद्वयनिरूपितविशेष्यताद्वयशालिन एव बोधस्य जननादौपादानिकबोधपर्यन्तमनुधावनम् , एवमग्रेऽपि बोध्यम् ॥ उक्तन्यायेन पंचमभङ्गप्रदर्शनायाह-'सम्भावे आइटो देसो, देसो य उभयहा जस्स । तं अस्थि अवत्तवं च होइ दवियं विअप्पवसा ॥३॥" सद्भावेऽस्तित्वे यस्य घटादेर्द्धर्मिणो देश आदिष्टो देशश्चापर उभयथाऽस्तित्वनास्तित्वप्रकाराभ्यामेकदैव विवक्षितः तद्रव्यमस्ति चावक्तव्यं च भवति, विकल्पवशादुक्तोभयधर्माकान्तदेशद्वारेण धर्मिणो विवक्षावशात् , तेन प्रथमतृतीयभङ्गसंयोगेनान्यथासिद्धिव्युदासः, केवलधर्मविवक्षाया देशाविशेपितद्रव्य एव सम्भवात् , देशद्वारा द्रव्ये उभयधर्मविवक्षाया एव युक्तत्वादिति बोध्यम् ॥ षष्ठं भङ्गदर्शयितुमाह-'आइट्ठोसब्भावे देसो, देसो य उभयहा जस्स । तं णत्थि अवत्तवं च होइ दवियं विअप्पवसा॥४॥' यस्य वस्तुनो देश एकोऽसचे नियतोऽपरश्च सत्त्वासत्त्वाभ्यां युगपदादिष्टस्तद्रव्यं तथा विकल्पवशानास्ति चावक्तव्यं च भवति, केवलद्वितीयतृतीयभङ्गव्युदासः प्राग्वद्भाव्यः।। सप्तमं प्रदर्शयति-"सम्भावासम्भावे देसो, देसो य उभयहा जस्स । तं अत्थि णस्थि अवत्तव्वं च दवियं विअप्पवसा ॥५॥ यस्य देश एकः सद्भावेऽपरोऽसद्भावेऽन्यश्चोभयथा नियतस्तद्र्व्यं तथा विकल्पवशादस्ति नास्त्यवक्तव्यं च भवति, विशिष्टविवक्षया केवलभङ्गत्रयव्युदासः ॥ न चात्राष्टमवचनविकल्पपरिकल्पनापि सम्भवदवतारा, तन्निमित्ताभावात् , सावयवात्मकस्य निरवयवात्मकस्य तन्निमित्तस्य चतुर्थादिषु प्रथमादिषु चान्तर्भावात् , गत्यन्तरस्य चासत्त्वात् , न चावक्तव्यत्ववद्वक्तव्यत्वेनाष्टमेन भवितव्यम् , सम्प्रति पक्षमौलभङ्गजिज्ञासामूलजिज्ञासाविषयत्वेनावक्तव्यत्वाश्रयणेऽपि तद्विपर्ययेण वक्तव्यत्वाना
For Private And Personal Use Only