________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
अष्टसहस्री है विवरणम् ॥ ॥२१०॥
परिच्छेद: प्रथमः॥
%%A40564 CANCERCRACR44666
तु रूपादिप्रत्येकवृत्ति नाना तत् , कथश्चित्सौ (स ) सादृश्याच्चैकत्वव्यवहार इत्येतावान् विशेष इति सम्भावयामः ॥१४॥ यदि वा रूपादयोऽर्थान्तरभूता मतुबर्थो निजस्ताभ्यामादिष्टो घटोऽवक्तव्यः, विना कल्पनाशिल्पं भिन्नप्रतीतिविषये विशेषणविशेष्यभावाभावात् , अनेकान्ते तु कथञ्चिदवाच्यः ॥१५॥ अथवा बाह्योऽर्थान्तरभूत उपयोगस्तु निजस्ताभ्यामादिष्टोऽवक्तव्यः। य उपयोगः स घट इत्युक्तौ उपयोगमात्रस्य घटत्वप्रसक्तेः, यो घटः स उपयोग इत्युक्तावुपयोगस्यार्थत्वप्रसक्तेर्घटस्यावाच्यत्वात् , अनेकान्ते तु कथञ्चिदवाच्यत्वे दोषाभावादिति दिग् ॥ १६॥ " भङ्गाः षोडश योगतर्कवदिमे भूयो विचारक्षमाः, साकल्येन च तैर्नियम्यत इदं भङ्गत्रयं वस्तुनि ॥ तेनैतान् सुधियो वदन्ति सकलादेशान् विवक्षावशा-देशस्थांश्चतुरः परांस्तु विकलादेशान्निदेशाद् गुरोः ॥ १॥ एतदन्यतरेणैव सप्तभङ्गैक्यमिप्यते ॥ शब्दसाम्येन नैकत्वं तत्त्वतः षोडशैव ताः ॥२॥ इहार्थे कोटिशो भङ्गा निर्दिष्टा मल्लवादिना ॥ मूलसम्मतिटीकायामिदं दिग्मात्रदर्शनम् ॥३॥” एत एव सप्तभङ्गाः स्यात्पदलाञ्छनविरहिणोऽवधारणैकस्वभावा विषयाभावाहुर्नया भवन्ति । धर्मान्तरोपादानप्रतिषेधाकरणात् , स्वार्थमात्रप्रतिपादनपराः स्यात्पदमहिम्ना विवक्षितैकधर्मावधारणपरा वा सुनया इति विभागः । एवं निरवयववाक्यात्मकं भङ्गत्रयं प्रतिपाद्य सावयववाक्यरूपं चतुर्थ भङ्गं प्रतिपादयितुमाह-"अह देसो सम्भावे देसोऽसम्भावपज्जवे णियउ । तं दवियमत्थिणत्थिय आएसविसेसियं जमा ॥२॥" अथेति यदा देशो वस्तुनोऽवयवो धर्मो वा, सद्भावेऽस्तित्वे, नियतो विवक्षितः, देशश्चापरोऽसद्भावे नास्तित्वे, तदा तद्रव्यमस्ति च नास्ति चेति देशाभेदद्वारेण वाच्यम् । अक्षिपाणिगतकाणकुंटत्वयोगात् काणकुंट इव देवदत्तः, तदाह-यस्माचद्रव्यमादेशविशेषितम्
॥२१॥
For Private And Personal Use Only