________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
परलक्षणव्यावृनिधौव्यम् । अवक्तव्यत्वभङ्गमुपदर्शयितुमुपमक्रमते-कथमवक्तव्यमित्यादिना (८), भाष्ये-निष्पर्यायं | ( १९७-१-८ ) क्रमरहितम् , अभिधानं वचनं, भावाभावी, अञ्जसैव परमार्थेनैव, न विषयीकरोति (९) शब्द
शक्तिस्वाभाव्यात् (९) एकं पदमेकया वृत्त्यैकमेवार्थ बोधयतीति स्वभावकल्पनादिति योजनार्थः, तदाह वृत्तिकृत्-सर्वस्ये त्यादि(९)। पदस्वभावं वाक्येऽप्यतिदिशति- एतेनेति'(१२)।।उपचारादेवकत्वाभि(धाना)मननादिति(१४)क्रमार्पितोभयविषयत्वं तत्र पदद्वयस्यैकत्वं तु सामूहिकबुद्धिविषयतयेति न पदस्वभावभङ्ग इत्यर्थः । नन्वेवं तृतीयभङ्गो विलुप्येत, द्वाभ्यामेव तदर्थसिद्धेः, न च द्वयोर्भङ्गयोनैकवाक्यत्वं तृतीयस्य तु तदस्तीति विशेषः, अर्थैकत्वं विनैकवाक्यत्वस्यैवाभावात् । “अथैकत्वादेकं वाक्यं साकाझं चेद्विभागे सात्" इत्यनादिमीमांसाप्रसिद्धः, न च वाक्यस्य तदर्थस्य चोपचारादेवैकत्वाभिमननादत्र विशेषो वक्तुं शक्यः, उपचारबीजस्यैव विचारणीयत्वादित्यखरसादाह-'तदु(त्रो)भयप्राधान्यस्येति' द्वन्द्ववृत्तौ (१४) तद्वाक्याद्वे (क्ये वे)ति (१४) वाशब्दस्येवार्थत्वावन्द्ववृत्ताविव तृतीयभङ्गवाक्यादित्यर्थः, इत्थं च द्वन्द्ववृत्तौ यथा पदानां प्रधानकस्वा
थबोधकत्वं पदविधया वृत्तिविधया तु साहित्यसमाहारादिरूपकोभयपदार्थप्राधान्यबोधकत्वं तथात्रापि पदवाक्यविधया नैकार्थका त्वभङ्ग इति प्रत्येकद्वयातिरिक्तोभयप्राधान्यरूपार्थभेदात्तृतीयभङ्गोऽतिरिच्यत एवेति सिद्धम् , उभयप्राधान्यं चोभयकर्तृकैकक्रिया
प्राधान्यादित्याह-'सर्वस्येति' (१९७-२-१) अत्र च न हि क्रियारहितं वाक्यमस्ति, "क्रियाप्रधानमाख्यातम्" इति वैयाकरणनये स्यात् सत्स्यादसदेव च सर्वमस्तीत्यतोऽस्तित्वानुकूला भावना कथञ्चित् सदसदुभयसर्वाश्रयकाऽभिन्नेति धात्वर्थविशेष्यकः शाब्दो बोधो,न्यायनयेन च नामार्थविशेष्यक एव,क्रियारहितस्यापि वाक्यस्याश्रयणादिति विशेषः। इदं तु ध्येयम्। सम्भूयोच्चारणं
For Private And Personal Use Only