________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ।। ॥ २०० ॥
www.kobatirth.org
व्यवहारोऽतत्कार्यकारणव्यतिरेकव्यवस्थायां गुडूच्याद्युदाहरणप्रक्लप्तिं विपर्यासयति, तस्य वस्तुभूतार्थसादृश्यपरिणामसाधनत्वात् । न हि गुडूच्यादयो ज्वरोपशमनशक्तिसमानपरिणामाभावे ज्वरोपशमहेतवो न पुनर्दधित्रपुषादयोपीति शक्यव्यवस्थम्, चक्षुरादयो वा रूपज्ञानहेतवस्तज्जननशक्तिसमानपरिणामविरहिणोपि न पुना रसा (सना) दय इति निर्निबन्धना व्यवस्थितिः । अतत्कार्यकारणव्यावृत्तिर्निवन्धना सेति चेत्, कथं तत्कारणकार्यजन्यजनकशक्तिसमानपरिणामाभावेपि केषांचिदतत्कारणकार्यव्यावृत्तिः सिध्येदिति प्रकृतमुदाहरणं कर्कादिव्यक्तीनामश्वत्वादिप्रत्ययं तथासमानपरिणामहेतुकं साधयति ? इति विपर्याससाधनमन्यापोहवादिनाम् । ततोमीषामन्यापोहसामान्यमसदवक्तव्यमेव । एतेन स्वलक्षणान्या पोहद्वयं सदसदवक्तव्यमेव सौगतानामापादितमुन्नेयम्, स्वलक्षणस्य सतोप्यन्यापोहस्य चासतोपि वक्तुमशक्यत्वात् । इति परमतापेक्षया चरमभङ्गत्रयमुदाहृतम् ॥ १६ ॥
भाष्ये 'त्रिलक्षणस्यापीति' (१९६ - २ - १३ ) तदुत्पत्तितदाकारतदवधारणत्वरूपलक्षणत्रयस्यापीत्यर्थः । विभ्रमहेतुफलज्ञानैरिति विभ्रमा हेतवो येषां तादृशानि यानि फलीभूतानि विज्ञानानि तैरित्यर्थः । वृत्तौ स्वसमनन्तरप्रत्यय इति, (१४) शंखे पीताकारज्ञान इत्यर्थः । यद्यपि तत्र तस्य ज्ञानाकारांशे प्रमाणत्वमव्याहतमेव, इतरांशे तु तजन्माभावादेवाप्रामाण्यम्, तथापि तज्जन्मतद्रूपतदध्यवसायानां प्रामाण्यप्रयोजकत्वे गौरवात्तदध्यवसायित्वस्यैव लाघवात् प्रामाण्यप्रयोजकत्वं युक्तम्, इत्थं च दर्शनमात्रं न प्रमाणम्, किन्तु स्वपररूपानुगमव्यावृत्त्य व्यवसायि ज्ञानमेवेति तदनुरोधेन वस्तूभयात्मकं स्वीकर्त्तव्यमित्यत्र तात्पर्यम् । तदनभ्युपगमे ( १४ ) समनन्तरप्रत्ययप्रामाण्यानभ्युपगमे, किं साधनः किंप्रमाणकः । तदेकोपलम्भनियमः ( १९७-१-३ ) तस्य दर्शनस्यैकोपलम्भे स्वलक्षणपरिच्छेदे संसर्गतया प्रकारतया वा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः प्रथमः ||
|||| २०० ॥