________________
Shri Maharlain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandie
कथमप्यनुपपत्तेः, बटमानयतीत्यादौ घटादिपदज्ञानाधीनघटादिस्मृतेरमादिपदज्ञानाधीनकर्मत्वादिस्मृतिकाले नाशात् । घटादिस्मृतेरेवामादिपदविषयत्वे त्वव्यवधानेन कर्मत्वादिस्मृतेः घटीय कर्मत्वमिति बोधसम्भवेऽपि तत्काले घटादिस्मृतिनाशादानयनादिबोधासम्भवात् , सर्वेषां पदानां समूहालम्बनस्मृतौ तथैवार्थस्मृत्या खले कपोतन्यायेन सर्वत्र विशेष्ये विशेषणमिति : रीत्यैव शाब्दबोध इत्युपाध्यायमतस्य तु मित्रैरेव दूषितत्वात् , यत्र विशेषाणां न परस्परमन्वयसम्भवस्तत्रैव चैत्रः स्थाल्यां गेहे काष्ठेनौदनं पचति गच्छति जानाति चेष्टते चेत्यादौ समूहालम्बनस्मृत्यपेक्षाऽन्यत्र त्ववान्तरवाक्यार्थबोधपूर्वक एव | महावाक्यार्थबोधः, यथा वाक्यार्थकर्मके कुलकादौ, नहि कुलकादावित्युवाचेत्यादावित्यादिपदोपस्थाप्यवाक्यार्थानुपस्थि-18 तावन्वयबोधः, न च तदुपस्थितिरवान्तरवाक्यार्थबोधं विना, न चेदेवं कथं पञ्चाध्याय्यात्मकमहावाक्यार्थबोधस्याप्युपपत्तिः, न ह्यध्ययनेन तावदेकदा ज्ञायते, किन्तु दिने दिने किञ्चित् , अत एव सम्यगवधानासमर्थः स्वल्पं स्वल्पमुच्चार्य योजनया बोध्यते, घटमानयेत्यादौ त्वनियमः सामग्रीद्वयस्यापि पृथक पृथक क्लप्तत्वादिति मिश्रमतस्याप्यनिर्धारणेनैव हतत्वात् , अवान्तरवाक्यार्थबोधासाधारण्येन पदजन्यपदार्थोपस्थितित्वेन नियतद्वारत्वाभावात् , अनियतोपस्थितेस्तु पदार्थज्ञानोबुद्धसंस्कारप्रभवपदोपस्थितावतिप्रसक्तत्वात् , यथातात्पर्य गृहीतव्युत्पचिकवाक्यज्ञानादेव नियतैकानेकात्मकवाक्यार्थप्रतीतेः सार्वजनीनायाः स्वीकर्तुमुचितत्वात् , " वाक्यार्थे द्योतकं ह्येवं पदमात्रं व्यवस्थितम् ।। निपाते स्फुटता तस्य केवलस्याप्रयोगतः॥१॥" इति भावनीयं सुधीभिः । वाचकत्वद्योतकत्वयोरनेकान्तस्तु सर्वत्र 'सिद्धिः स्याद्वादात्' इति हैमसूत्रसिद्ध एव, प्रकृते च “स वाचको विशेषाणां स च तद्द्योतकोऽथवा" इति वाक्यपदीयमपि साक्षीति किमतिविस्तरेण ।
LOC45625A5%
25-25A5%
For Private And Personal Use Only