SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir मष्टसहसी|४ विवरणम् ॥ ॥ १८९॥ प्रथमव्यवहाराद्वाक्याभिन्नानां पदानामेव शक्तिकल्पनात् , पदार्थे पृथक्शक्तिकल्पने मानाभावात् , काव्यमूलज्ञानस्य च परिच्छेदः चन्द्रमुखसादृश्यादिस्मृत्युपनीतस्य मानसत्वात् , ईदृशि स्थले मनसो बहिःस्वातन्त्र्वस्याप्यभ्युपगमात् , श्वेतोऽश्वो धावती- प्रथमः॥ तिधियश्च दृश्यमानः श्वेतोऽयं धावदश्वः हेपाखुरविक्षेपकर्तृत्वादित्यनुमितिरूपायाः संशयोत्तरप्रत्यक्षरूपाया वा सम्भवात् , अतीतत्वादिना पदार्थानां स्मृतौ शाब्दबुद्धौ वाऽहेतुत्वात् पदार्थस्मृतेश्चाव्यापारत्वान्न प्रमाणत्वमिति नैयायिकः, यत्तु पदार्थस्मृतिमात्रस्य शान्दबुद्धिहेतुत्वे घटः कर्मत्वमानयनं कृतिरित्यादिपदजन्यपदार्थोपस्थितावतिप्रसङ्गः, निराकासपदाजन्यस्मृतेस्तथात्वे तु गौरवमिति साकाङ्क्षपदज्ञानमेव करणं पदार्थस्मृतिस्तु व्यापार इति नैयायिकैरुक्तम् , तदयुक्तम् , साकाङ्क्षपदार्थस्मृतेरेव फलायोगव्यवच्छिन्नत्वेन करणत्वौचित्यात् , यत्र चापचारादित्यादि च यदुक्तम् , तद्विचारासहम् , मानसादपचारात्पदार्थानवगमेन वाक्यार्थप्रतीत्यभावासिद्धरुपहतमनसो विशिष्टपदसमुदायरूपवाक्यस्यैवानवगमान्निश्चयरूपस्य तदवगमस्यान्त्यपदप्रतिपत्तिकाले स्वार्थविशिष्टपूर्वपूर्वपदपरामर्शस्याविलम्बेन वाक्यार्थप्रतिपत्तिजनकत्वात् , इतरथोपेक्षारूपस्य तादृशपदार्थोपस्थितिवदनादरणीयत्वात् , तदुक्तं-'सम्मतिवृत्तौ' पूर्वपदानुविद्धं चान्त्यपदं यदा वाक्यं पूर्वपदानि च स्वाभिधेयविशिष्टतयाऽन्त्यपदप्रतिपत्तिकाले परामृश्यमानानि वाक्यार्थप्रतिपरिजनकानि, तदा पदार्थानवगमे वाक्यस्यैव स्वार्थाभिसम्बद्धतयाऽनवगमात् कथं ततो वाक्यार्थप्रतीतिर्भवेदिति, अयमिह निष्कृष्टार्थः, यावती व्युत्पत्तिः शाब्दबोधे हेतुस्तावद्व्युत्पचिसम्बन्धेन स्वार्थविशिष्टवाक्यज्ञानं धारणारूपमेकोपयोगप्रविष्टपदकदम्बविषयं तत्त्वादेवानुपूर्वीपर्यायेण सर्वत्र प्रत्यक्षं तात्पर्यवशाद्विशेष्ये विशेषणमिति रीत्या विशिष्टे वैशिष्ट्यमिति रीत्या वा कथञ्चिदेकानेकात्मकवाक्यार्थधियं जनयति, पदार्थोपस्थितिद्वारत्वे IN॥ १८९ ॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy