________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ।। ॥ १८४॥
www.kobatirth.org
दिना संकरस्येष्टत्वात् तेनाप्यसंकरे हर्षविषादादिचित्रप्रतिपत्तेरयोगात् । अस्ति च सैकत्रापि विषये यत्र मे हर्षः प्रागभूत्तत्रैव विपादो द्वेषो भयादिव वर्तते, अहमेव च हर्षवानासं, संप्रति विषादादिभान् वर्ते नान्य इति क्रमतश्चित्रप्रतिपत्तिरबाधा । ततो जीवः सन्नेव । एवं च यथैकत्र समनन्तराव ग्रहादिसदादिस्वभावसंकरपरिणामस्तथैव सर्वत्र चेतनाचेतनेषु, संप्रत्यतीतानागतेषु, तत्स्वभावाविच्छित्तेः । अतः कथञ्चित्सदेवेष्टं जीवादि तत्त्वं, सकलबाधकाभावात् । तर्हि सदेव सर्वं जीवादिवस्तु, न पुनरसदिति चेत्, न, सर्वपदार्थानां परस्परमसंकरप्रतिपत्तेरसत्त्वस्यापि सिद्धेः, जीवाजीवप्रभेदानां स्वस्वभावव्यवस्थितेरन्यथानुपपत्तेः । न केवलं जीवाजीवप्रभेदाः सजातीयविजातीयव्यावृत्तिलक्षणाः, किंतु बुद्धिक्षणेपि कचिद्राह्यग्राहकयोः सितादिनिर्भासांश परमाणुसंवित्तयोपि, परस्परपरिहारस्थितिलक्षणत्वादन्यथा स्थूलशवलावलोकनाभावात्तदेकांशवत् सर्वथा परस्परमव्यावृत्तानां ग्राह्यग्राहक सितादिनिर्भासावयव परमाणुसंवित्तीनामेकपरमाणुस्वरूपतापत्तेः। न चैकपरमाणुः स्थुलतया शवलतया बावलोकयितुं शक्यः, भ्रमप्रसङ्गात् । तथा च सकलचेतनेतरक्षणपरिणामलवविशेषाः परस्परविविक्तात्मानः सिद्धाः, स्वस्वभावस्य स्वभावान्तरेण मिश्रणाभावात् । तदन्योन्याभावमात्रं जगत् । अन्यथा सर्वथैकत्वप्रसङ्गात्, तत्रान्वयस्य विशेषापेक्षणादभावो वा स्वतन्त्रस्य तस्य जातुचिदप्रतिभासनात् । तदिष्टमसदेव कथञ्चित् । सर्वथा भावाभावो भयात्मकमेव जगदस्तु तत्र भावस्याभावस्य च प्रमाणसिद्धत्वात् प्रतिक्षेप्तुमशक्यत्वादित्यपरः, सोपि न तत्त्ववित् सुयुक्त्यतिलङ्घनात् । न हि भावाभावैकान्तयोर्निष्पर्यायमङ्गीकरणं युक्तं यथैवास्ति तथैव नास्तीति विप्रतिषेधात् । ततः कथनित्सदसदात्मकं द्रव्यपर्यायनयापेक्षया । द्रव्यनयापेक्षयैव सर्वं सत् पर्यायनयापेक्षयैव च सर्वमसदात्मकं, विपर्यये तथैवासंभवात् । न हि द्रव्यनयापेक्षया सर्वमसत् संभवति, नापि पर्यायनयापेक्षया सर्वं सत्, प्रतीतिविरोधात् । भावाभावस्वभावरहितं
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः प्रथमः ॥
॥ १८४॥