SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersun Gyanmandit किश्चिदित्यालोकितं तदेव वर्णसंस्थानादिसामान्याकारेणावगृहीतं पुनः प्रतिनियतविशेषाकारेणेहितं तदेवाकाशितविशेषाकारेणावेत, पुनः कालान्तरस्मृतिहेतुतयावधारित, तदेव कालान्तरे तदित्याकारेण स्मृतं, पुनस्तदेवेदमित्याकारेण प्रत्यभिज्ञातं, ततो यदित्थं कार्यकृत्तदित्थं सर्वत्र सर्वदेति तर्कितं, ततस्तत्कार्यावबोधनादभिनिबुद्धं, तदेव च शब्दयोजनया विकल्पनिरूपणया वा परार्थ स्वार्थ वा श्रुतमित्यनुसन्धानप्रत्ययवदहमेक एव दृष्टाऽवगृहीतेहितेत्याद्यनुसन्धानबुद्धिरपि न कचिदास्पदं बनीयात् । तथाविधवासनाप्रबोधादनुसंधानावबोधप्रसिद्धिरिति चेत् , साऽनुसंधानवासना यद्यनुसन्धीयमानदर्शनादिभ्यो भिन्ना, तदा संतानान्तरे दर्शनावग्रहादिष्विव स्वसंतानेपि नानुसंधानबोधमुपजनयेत् , अविशेषात् । तदभिन्ना चेत् , तावद्धा भिद्येत, न हि भिन्नादभिन्नममिन्नं नामेति स्वयमभिधानात् । तथा च तत्प्रबोधात्कथं दर्शनावग्रहादिष्वेकमनुसन्धानज्ञानमुत्पद्येत ? यदि पुनस्तेभ्यः कश्चिदभिन्ना वासनानुमन्यते तद्धेतुस्तदा अहमहमिकयात्मा विवर्ताननुभवन्ननादिनिधनः स्वलक्षणप्रत्यक्षः सर्वलोकानां कचिचित्रवित्तिक्षणे नीलादिविशेषनिर्भासवदात्मभूतान परस्परतो विविक्तान्सहक्रमभाविनो गुणपर्यायानात्मसात्कुर्वन् सन्नेव सिद्धः, तस्यैव वासनेति नामान्तरकरणात् । तदेकत्वाभावे नीलादिविशेषनियतदर्शननानासंतानसंवेदनक्षणवचित्रसंवेदनं न स्यात् । क्रमवृत्तिसुखादीनामिव दर्शनावग्रहादीनामेकसतानिपतितत्वादनुसंधानमनननिबन्धनत्वमनुमतमिति चेत् , तर्हि संततिरात्मैव । तथा क्रमवृत्तीनां सुखादीनां मतिश्रुतादीनां वा तादात्म्यविगमैकान्ते संततिरनेकपुरुषवन्न स्यात् । सुखादिमत्यादीनां नैरन्तर्यादव्यभिचारिकार्यकारणभागद्वास्यवासकभावाचापरामृष्टभेदानामेका संततिः, न पुनरनेकपुरुष, तदभावादिति चेत् , तर्हि नैरन्तर्यादेरविशेषात्संतानव्यतिकरोपि किन्न स्यात् ? न हि नियामकः कश्चिद्विशेषः, अन्यत्राभेदपरिणामात् । संतानिनां भेदपरिणाम एव नाभेदपरिणामः, संकरप्रसङ्गादिति चेत्, न, येनात्मना तेषामभेदस्तेन सद्रव्यचेतनत्वा SUCH AS For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy