SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir उदात्तत्वादेरिव कत्वादेरुपाधेः कल्पितस्याश्रयणात् , वस्तुतः स एवायमिति प्रत्यभिज्ञाने गादेर्नित्यत्वात् , न च गत्वावच्छिनप्रतियोगिताकमेदाभावस्तद्विषयो, व्यक्त्यंशाभेदस्यापि भासमानस्य विना बाधकं त्यागायोगात् । न चोत्पत्तिप्रतीतिर्बाधिका, प्रागसत्त्वे सति सत्त्वरूपाया उत्पतेर्वर्णेष्वनुभवविरुद्धत्वात् , अत एव वर्णमुच्चारयतीति प्रत्ययो, न तूत्पादयतीति, उच्च-13 स्तित्वं च ताल्वोष्ठसंयोगादिजन्याभिव्यक्तिविशिष्टत्वम् , किश्च व्यञ्जकध्वनिनिष्ठोत्पत्त्यादेः परम्परया वर्णनिष्ठत्वविषयत्वेनाप्युपपत्तेर्न साऽतिरिक्तवर्णसाधिका, न च वर्णस्थले नियमतो ध्वनिसत्वे मानाभावस्तदुत्पादकशंखाद्यभावेन तदसम्भवश्चेति वाच्यम् । ककाराद्युच्चारणस्थले तत्तत्स्थानस्य जिह्वयेषदन्तरपाते वर्णानुत्पनेव॑न्युत्पनेश्च दर्शनात् , जिह्वाभिघातजवायुकण्ठसंयोगादेव॑निजनकत्वकल्पनाचस्य च वर्णोत्पतिस्थलेऽपि सत्त्वाचवैवाप्रामाणिकप्रतिबध्यप्रतिबन्धकभावकल्पने गौरवादिति सिद्धावखण्डपदवाक्यस्फोटौ ४-६ । जातिस्फोटा यथा-वर्णास्तावदावश्यकाः, तदनादरेण स्फोटाभ्युपगमे सोऽयं गकारो यः पूर्व श्रुतइत्यपि स्यात् , न स्याच्च गकारोऽयं न हकार इति, स्फोटस्यैकत्वात् । किञ्च स्फोटे गत्वाद्यभ्युपेयं न वा? आये तदेव गकारोऽस्तु, वर्णनित्यतावादिभिरितिरिक्तगत्वानङ्गीकारात् , तथाचातिरिक्तस्फोटकल्पन एव गौरवम् । अन्त्ये गकारादिप्रतीतिविरोधः, गत्वारोपे मानाभावादिति कृतं स्फोटेन, तस्मात् सन्त्येव वर्णाः। परन्तु न वाचकाः, आकृत्यधिकरणन्यायेन जातेरेव वाच्यत्ववद्वाचकत्वस्यापि युक्तत्वाच्च । इदं हरिपदमित्यनुगतप्रतीत्या हर्युपस्थितित्वावच्छिन्ने हरिपदज्ञानत्वेन हेतुत्वाचदवच्छेदकतया च जातिविशेषस्यावश्यकल्प्यत्वात् । न च वर्णानुपूव्यव प्रतीत्यवच्छेदकत्वयोर्निर्वाहः, घटत्वादेरपि संयोगविशेषविशिष्टमृदाकारादिभिश्चान्यथासियापत्तेः, तसात् सा जातिरेव वाचिका, तादात्म्येन तदवच्छेदिका च, न च जातेः प्रत्येकं For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy