________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsur Gyanmandir
अष्टसहस्री विवरणम् ॥
| परिच्छेदः
प्रथमः॥
॥१६॥
| अविवादात् , परं त्वव्यवहितोत्तरत्वं स्वज्ञानाधिकरणक्षणोत्पत्तिकज्ञानविषयत्वं वाच्यम् , अत एव घज्ञानानन्तरज्ञानविषयत्वरूपा टस्यानुपूर्वीत्यादिनैयायिकवृद्धानां प्रवादः, एतेन पर्यायस्थलेष्वेक एव स्फोटो नानावा? नाद्यो घटपदे गृहीतशक्तिकस्य कलशपदाद् बोधप्रसङ्गात् , न च तत्पर्यायाभिव्यक्तशक्तिग्रहस्तत्पर्याय श्रवणेऽर्थधीहेतुरिति वाच्यम् । एवं प्रतिपर्यायं शक्तिग्रहध्रौव्येण तत्चत्पर्यायशक्तिग्रहहेतुताया उचितत्वात् तथा सति शक्तिमहत्वेनैव हेतुत्वे लाघवात् । अन्यथा तत्पर्यायाभिव्यक्तशक्तिग्रहत्वेन हेतुत्वे गोरवात् । न द्वितीयोऽनन्तपदार्थानां तेषां शक्तिं चापेक्ष्य क्लप्तवर्णेष्वेव शक्तिकल्पनाया लघुत्वादिति परिमलोक्तमपा स्तम् । पर्यायेवनेकशक्तिस्वीकारस्य सर्वसिद्धत्वात् तदवच्छेदकानुपूर्व्याश्चोपपादितत्वात् , शब्दकौस्तुभे तु वर्णमालायां पदमिति प्रतीतेर्वर्णातिरिक्त एव स्फोटोऽन्यथा कपालातिरिक्तघटासिद्धिप्रसङ्गादित्युक्तम् , नन्वेवं पदस्खाखण्डत्वे शास्त्राप्रामाण्यप्रसङ्गस्तस्य प्रकृतिप्रत्ययाभ्यां पदव्युत्पादनमात्रार्थत्वादिति चेत् , न । वास्तवब्रह्मबोधनाय वेदान्ते कोशपञ्चकव्युत्पादनवद्वास्तवस्फोटबोधनाय व्याकरणे प्रकृतिप्रत्ययादिव्युत्पादनोपपत्तेः। न च प्रत्यक्षस्य स्फोटस्य ग्रहे किं शास्त्रोपायापेक्षयापीति वाच्यम् । उपायस्योपायान्तरादूषकत्वात् , तथा च व्याकरणाभ्यासजन्यज्ञाने वैजात्यं कल्प्यते, मन्त्रजन्यमिवार्थस्मरणे, वेदान्तजन्यमिव ब्रह्मज्ञाने, तस्य च ज्ञानस्य यज्ञादीनामन्तःकरणशुद्धाविव शरीरादिशुद्धावुपयोगः, साक्षात्परम्परया वा स्वर्गमोक्षादिहेतुत्वं च । तदुक्तं वाक्यपदीये-"तद् द्वारमपवर्गस्य, वाङ्मलानां चिकित्सितं । पवित्रं सर्वविद्याना-मधिविद्यं प्रकाशते॥१॥ इदमाद्यं पदस्थानं, सिद्धिसोपानपर्वणाम् । इयमामोक्षमाणाना-मजिह्मा राजपद्धतिः॥२॥” इति। न चालीकया प्रकृतिप्रत्ययकल्पनया कथं वास्तवस्फोटबोध इति वाच्यं, रेखागवयन्यायाश्रयणात् । अथ स्फोटस्य वर्णानां च नित्यतया ककारोत्पत्त्यादिप्रत्ययः कथमिति चेत् ,
॥ १६०
For Private And Personal Use Only