SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir परिच्छेदा प्रथमः॥ अष्टसहस्री विवरणम् ॥ ॥१५९॥ कारणत्वं चेत्युभयं कल्प्यमिति गौरवं स्यात् । तथा च तादृशर्वणसमभिव्याहारस्तादृशसमभिव्याहृता वर्णा वेत्यत्र विनिगमकाभावात् प्रयोगान्तर्गता वर्णा वाचकाः सिद्भवन्ति, कृत्तिकोः कर्तृभावनावाचकत्वव्यवस्थातोऽपि तेषां तचसिद्धिः, आदेशानां वाचकत्व एव हि तित्वेन भावनायामानत्वादिना कर्तरि शक्तिरित्युपपद्यते विभागः, न च शानजादौ कृतिर्लकारार्थः, आश्रयः शानजर्थ इत्यस्तु " करि कृत् " इत्यनुशासनादिति शक्यम् । स्थान्यर्थेन निराकांक्षतया शानजादौ कर्तरीत्यस्याप्रवृत्तेः, अन्यथा धनादावपि तत्प्रवर्तेत, न च देवदत्तः पचमान इति सामानाधिकरण्यानुरोधाच्छानचः कर्ता वाच्यः स्यादिति वाच्यम् , पचतितरां मैत्रः पचतिकल्प मैत्र इत्यादिष्वपि तद्दर्शनादिति दिग् १ ॥ एवं वर्गस्फोटे सिद्धे पदस्फोटोऽपि २ सिद्ध एव, समभिव्याहृतवर्णानां वाचकत्वे सिद्धे तादृशवर्णसमभिव्याहाररूपपदस्य वाचकतायाः सिद्धिधौव्यात् , प्रतिवर्णमर्थस्मरणस्यानुभवविरुद्धत्वात् , प्रत्येकवर्णानामर्थवत्वेन प्रातिपदिकत्वापत्तौ " नलोपः प्रातिपदिकांतस्य" इत्यादिभिर्द्धनं वनमित्यादौ नलोपापत्तेच, एतच्चरमवर्ण एव वाचकत्वं शक्तिकल्पनौचित्यात् , तस्या व्यासज्यवृत्तित्वे मानाभावात् , पूर्वपूर्ववर्णानुभवजन्यसंस्काराचरमेणार्थधीजनने सहकारिण इति न तन्मात्रोच्चारणादर्थधीः, "सुप्तिङन्तं पदम्" इति पक्षेऽपि घटेनेत्यादौ प्रकृतिप्रत्ययविभागस्य वसूनसादिसमुदायादेश इव दुर्ज्ञानत्वात्पदस्फोटः स्वीकार्यः २॥ एवं हरेव विष्णो वेत्यादौ प्रत्येकपदज्ञानेऽपि समुदायशक्तिज्ञानाच्छाब्दबोधोदयाद्वाक्यस्फोटोऽपि ३ सिद्ध एव । वस्तुतः पदैः पदार्थावबोधो वाक्येन वाक्यार्थावबोध इति पदार्थशक्तिः पदेष्विव वाक्यार्थशक्तिर्वाक्येऽभ्युपेयेति पदस्फोटवाक्यस्फोटौ व्यवस्थितौ । अन्यथा घटः कर्मत्वमानयनं कृतिरित्यादौ विपरीतव्युत्पत्तिरहितस्यापि बोधप्रसङ्गात् , तत्रैव घटकर्मकमानयनमिति बोधे घटार्थकप्रातिपदिकोत्तरकर्मत्ववाचकविभ ॥१५९ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy