________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
णानां नित्यस्फोटवादोऽपि निरस्तः । आनुपूर्वीनिरासेन निष्कृष्टतद्रूपवाक्यस्फोटस्यापि निरासात्, अन्येषां तदभियुक्तैरप्यनादृतत्वात् , तथाहि-" स्फोटवादमपवादवर्जितं, सत्वरं प्रकटयिष्यता मया । शाब्दिकप्रणयकर्मकार्मणं, प्रक्रिया पटुधिया प्रदर्यते ॥१॥ वर्ण १ पद २ वाक्य ३ स्फोटाः, पदवाक्यगावखण्डौ ५ तौ। जातिस्फोटत्रयमित्यष्टौ स्फोटाः ८स्मृतास्तद्ज्ञैः॥२॥ तत्र १ वर्णस्फोटः, पचति राम इत्यादि प्रयुज्यमाने साधुशब्देऽन्तर्गतानां तिविसर्गादीनां वाचकत्वादिना सिद्ध्यति, ये त्वाहुः प्रयोगान्तर्गतास्तिवादयो न वाचकास्तेषां बहुत्वेन शक्त्यान-18 न्त्यापत्तेः, एधांचक्रे ब्रह्मेत्यादावादेशभूतलुगादेरभावरूपस्य बोधकत्वासम्भवाच्च । किन्तु तैः स्मृता लकारादयः स्वादयश्च वाचकाः, लत्वस्य जातिरूपतया शक्यतावच्छेदकत्वौचित्यादव्यभिचाराच, आदेशानां तु भिन्नतया परस्परव्यभिचारित्वात् , लः कर्मणीत्यायनुशासनानुगुण्याच्च, न ह्यादेशेष्वर्थबोधकमनुशासनमुपलभामह इति, तान् प्रत्युच्यते व्यवस्थातः प्रयोगान्तर्गता वाचका न तु स्मृताः, पचतीत्यादौ लकारमविदुषां बोधात् , न च तेषां तिविषये शक्तिभ्रमाद्बोधः, तस्य भ्रमत्वे मानाभावात् , आदेशिनामपि तत्तद्वैयाकरणैः स्वेच्छानुरोधेन भिन्नभिन्नानामभ्युपगमात् , कः शक्तः को नेति व्यवस्थानापचेश्व, सर्वेषां शक्तत्वे गौरवव्यभिचारौ दुरुद्धरौ । आदेशानां प्रयोगान्तर्गततया नियतत्वात् युक्तं तेषां शक्तत्वं तथा चादेशिस्मरणकल्पना नेति लाघवं, व्यवहृतेरपि, व्यवहारस्तावच्छक्तिग्राहकेषु मुख्यः । स च श्रूयमाणतिङादिष्वेवेति त एव वाचका इत्यर्थः । तद्धेतुन्यायतोऽपि लकारस्य बोधकत्वे भूल इत्यतोऽपि बोधः स्यात् , तादृशबोधे पचतीति समभिव्याहारोऽपि कारणमिति चेत् , तावश्यकत्वादस्तु तादृशसमभिव्याहारस्यैव वाचकत्वशक्तिः, अन्यथा लकारस्य वाचकत्वं समभिव्याहारस्य
For Private And Personal Use Only