________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्री
परिच्छेदः प्रथमः॥
विवरणम् ।।
॥१५५॥
रम्परानाधारकालत्वस्य घटव्याप्यत्वाच्च, न घटरहितकाले घटवत्त्वम् , घटप्रागभावध्वंसवत्वमेव घटवत्वमिति तु विसभागसन्तत्यनुगतत्वान्नाद्रियत इति ऋजुसूत्रोपजीवीव्यवहारानुसृतः पन्थाः। तत्र (१०) पूर्वपूर्वपरिणामसन्ततौ, अस्य (१०) प्रागभावस्य, दूषणावतारः (१०) पूर्वोत्तरपर्यायाणां घटात्मकत्वप्रसङ्गरूपः, सन्तानत्वाभिप्रायादिति (१२) अगृहीतभेदपूर्वपूर्वक्षणैरेवैकत्वानादित्वादिव्यवहारोपपत्तेरित्यर्थः । नन्वेवं सन्तानस्य साम्वृतत्वात् साम्वृतमेव प्रागभावकत्वानादित्वादि स्यादित्यत्रेष्टापत्तिमाह-सन्तानिक्षणापेक्षया त्विति (१२) पूर्वपूर्वक्षणानां घटप्रागभावत्वेऽपि यावत्तनिवृत्तेर्घटोत्पत्तिव्याप्यत्वान्न दोष इत्याह-तथाऽस्मिन् पक्ष ( १३ ) इत्यादि, पूर्वकालविशिष्टस्येति न च पूर्वपदार्थस्य प्रागभावगर्भत्वे आत्माश्रयः, घटतद्ध्वंसानाधारार्थत्वे च ध्वंसलक्षणेऽप्युत्तरकालपदार्थस्य प्रागभावगर्भत्वेऽन्योन्याश्रय इति वाच्यम् । कालविशेषावच्छिन्नस्वरूपसम्बन्धेन मृद्रव्यादेव प्रागभावव्यवहारोपपत्तेः, सम्बन्धस्य च प्रागनुपस्थितस्यैव संसर्गतया सर्वैरुपगमात् , हन्तैवं कालविशेषघटितसम्बन्धेन मृदादिद्रव्यादेव घटादिव्यवहारोपपत्तौ घटादिद्रव्यमपि नातिरिच्येत, न चेत्थमिष्टापत्तिः कत्तुं युज्यते, व्यवहारनयवादिनोऽतिसूक्ष्मेक्षिकायां परमाणुविश्रान्तौ तस्यापि सत्यासत्यत्वचिन्तायां सदद्वैतसिद्धौ सङ्ग्रहनयसाम्राज्यापत्तेरिति चेत् , न, मृदादिद्रव्याद् घटादिद्रव्यस्य प्रत्यभिज्ञानादिना किश्चित्कालस्थायित्वेन सिद्धस्य पृथगनुभूयमानत्वेन तन्मात्रत्वाकल्पनात् , प्रागभावादेस्तु तथा पृथगननुभूयमानत्वेनाधारमात्रस्वरूपत्वकल्पनात् , इत्थमेव व्यवहारनयप्रवृत्तेः, घटादिद्रव्ये आधारभिन्नत्वमुद्भूतमभावपर्याये तु तदभिन्नत्वं तथेति विवेकः ॥ तस्य चेति' (१४६-२-४) कालविशेषविशिष्टमृदादिद्रव्यरूपत्वे घटादिप्रागभावस्य कार्योत्पत्तौ विशिष्टध्वंसो द्रष्टव्यः । कालविशेषघटितसम्बन्धेन मृदा
॥१५५॥
For Private And Personal Use Only