________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
तन्तुकपटस्य मध्येऽवयवसंयोगनाशात्पश्चाशत्तन्तुकपटद्वयोत्पत्तिस्तत्र तयोः कालनियमस्य शततन्तुकनाशहेतुत्वेनैव सिद्धौ देशनियमाय प्रागभावसिद्धिरिति चेत् , न । तत्र चरमसंयोगशततन्तुकनाशयोः खसमानाधिकरणान्यतमत्वविशेषसंसर्गेण हेतुत्वादेव देशनियमस्थापि सम्भवात् । न च यत्र युगपदुत्पनैः शततन्तुसंयोगैः पट आरभ्यते तत्र चरमसंयोगानामपि तत्त्वतत्त्वेन हेतुत्वे गौरवात् प्रागभावसिद्धिः, तत्रापि तावत्संयोगमात्रवृत्तिजात्या द्रव्यारम्भकतावच्छेदकजात्यैव वा तत्कालावच्छिन्नान्यतमत्वसंसर्गेण हेतुत्वात् । न च बुद्धिविशेषेण विनिगमकाभावः, तस्य प्रत्यक्षशब्दादिरूपतया निर्णयाभावानिश्चिताव्यभिचारकस्य संयोगस्यैव हेतुत्वात् । स्यादेतद् , व्यक्तिस्थानीयापत्तिसत्वे बहूनां तन्तूनां युगपदुत्पन्नानन्तसंयोगादुत्पन्नपटस्य नानासंयोगनाशानश्यतः पुनस्तेषामेव तन्तूनां संयोगान्तरात्पटान्तरोत्पत्तिकाले उत्पत्तिवारणाय प्रागभावसिद्धिः, उत्तरपटस्तु प्राग नोत्पद्यते पूर्वपटध्वंसस्यापि तद्धेतुत्वात् । न च प्राक्तनपटे बहुत्वविशेषस्य हेतुत्वान्न दोषो नव्यनये तद्बहुत्वस्याग्रेऽपि सत्त्वादीदृशानन्तप्राक्तनपटोत्पत्तिवारणाय कार्यत्वावच्छिन्ने प्रागभावत्वेन हेतुत्वस्यैकस्यैवोचितत्वात् , आकाशाद्युदासीनमादाय बहुत्वस्य हेतुतापत्तेश्चेति चेत्, न, ईश्वरीयोपादानप्रत्यक्षादेस्तत्कालावच्छिन्नतद्घटावच्छिन्नविशेष्यतया हेतुत्वेऽनुपपत्त्यभावात् ।। वस्तुतस्तत्कालावच्छिन्नतत्तत्पटहेतुतत्तत्संयोगाभावकूटात्यन्ताभाव एक एव कालदेशनियामक इति नूतनः पन्था इति दिग ।। अत्र तत्कालावच्छिन्नतद्देशस्वरूपायास्तथाभव्यताया एव तत्कार्यदेशकालनियामकत्वम् , न च विनिगमकाभावः, सामानाधिकरण्यप्रत्यासत्तेविनिगमकत्वादित्यस्मदीयाः ॥ प्रागभावतत्प्रागभावादेस्त्विति (९) घटस्य प्रागभावः कुशूलं तस्य कोशस्तस्य स्थासस्तस्यापि मृत्पिण्ड एवं परमाणौ विश्रान्तिः, तत्परम्परानाधारघटप्रध्वंसप
For Private And Personal Use Only