________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
ग्युत्पत्तिकत्वं वर्तमानकालोत्तरकालोत्पत्तिकत्वं वा,न चेदमध्यक्षमुत्पत्तेरतीन्द्रियत्वादित्यादिना,"इत्यनुमानमिति ।(३) यद्यपि प्रागभावग्राहकं प्राग् नासीद् घट इति प्रत्यक्षमेव पक्षीकृतमुपपद्यते तथापि तस्य भावाभावविषयत्वसंशये उक्तानुमानाश्रयणमिति तात्पर्यम् । चरमसामय्या हेतुना प्रागभावोऽनुमीयत एवेति केचित् , तदसत् , अनुयोगिताविशेषरूपप्रागभावत्वादेः क्वचिदप्रतीतौ तादूप्येणानुमानासम्भवादिति दीधितिकारः, प्राग् नासीदिति प्रत्यक्षमुत्पद्यमानघटाकारपरिणतमृद्रव्यविषयमेव, प्रागभावादेरभावस्याधिकरणस्वरूपस्यैव स्वीकारानास्तीतिप्रत्ययबलेनातिरिक्ताभावस्वीकारेऽभावेऽप्यभावान्तरापत्तावनिष्टप्रसङ्गादित्याशयवानाहेति चेत्, नेत्यादि । उपचरिताभावविषय (५) इत्यभावप्रतियोगिकाभावाधिकरणकाभावस्याधिकरणानतिरेकादित्यर्थः । नापचरितेनाभावेनेत्यादि (६) त्वन्मत इति शेषः । अस्मन्मते त्वधिकरणात्मकाभावेनैव सर्वत्रोपपत्तेर्नानाधिकरणस्वरूपत्वेऽपि गौरवाभावादतिरिक्ताभावकल्पनानर्थक्यमिष्टमेव, त्वया नानाधिकरणेष्वभावस्य तादात्म्यातिरिक्तः सम्बन्धः कल्पनीयः, मया तु तादात्म्यमिति तवैव गौरवात् । हेत्वन्तरवीजमुपन्यस्य दूषयति-यदप्युक्तमित्यादिना (६) ॥ सामर्थ्यादिति (१०) अभिलापाभावेऽपि विशिष्टज्ञानसामग्रीबललभ्यत्वादित्यर्थः । एतद् गुणादावपि तुल्यमित्याह- तद्विशेष्यस्येति'(१०) सविकल्पकनिर्विकल्पकत्वानेकान्तस्तु भावित एव प्राक् । अतिरिक्तोऽपि प्रागभावो | लाघवादेक एव कल्पनीयः प्रतियोगिभेदेनाभावभेदे मानाभावादिति पक्षं परिगृह्य तस्यानादिसान्तत्वं दूषयितुमुपक्रमते-किश्च प्रागभाव (११) इत्यादिना, अनन्ताः प्रागभावा इति पक्षमुपन्यस्य दूषयति- यावन्तीत्यादि (१४) स्वतन्त्रा (१४५-२-१) अन्यानाश्रिताः, भावतन्त्रा (२) भावाश्रिताः, कालादिवदिति कालाकाशदिगादीनां हि स्वतत्राणां भावत्वं
For Private And Personal Use Only