SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir अष्टसहस्री विवरणम् ॥ ॥१५२॥ ***** परिच्छेदः प्रथमः॥ * * विशेषणाननुगमेनानुगतव्यवहारासम्भवाच्च । तदिदमाह न च गत्यन्तरमस्तीति (१४) ॥ उपसंहरति 'ततो नेति' (१४) ततो द्रव्यपर्यायात्मत्वाभावान भावस्वभावः प्रागभावः (१४)॥' हेत्वन्तरमाह-भावविलक्षणत्वादिति भाववैधादित्यर्थः, तत्र हेतुमाह-भाव(पदार्थ)विशेषणत्वसिद्धेरिति नियमतो भावविशेषणतया प्रतीयमानत्वादित्यर्थः । | अन्ये नैयायिका एवं ब्रुवते, तान् दूषयति-तेऽपीति' (१४५-१-१) माग् नासीद् घट इति (२) प्रागभावप्रतियोगित्वप्रकारकघटविशेष्यकप्रत्यक्षमित्यर्थः । एतेन प्रागभावप्रतियोगिनोऽनागतस्य भानार्थं सामान्यलक्षणप्रत्यासत्तिकल्पनं प्राचां नैयायिकानामपास्तम् । घटविशेष्यकप्रागभावप्रतियोगिकत्वप्रकारकप्रत्यक्षोपगमे दोषाभावात् , विद्युदादाविवात्र विनश्यदवस्थविषयकप्रत्यक्षस्य सविकल्पकस्य निर्विकल्पकक्रमेण सामग्रीविशेषादेवमेव वा स्वीकत्तुं शक्यत्वात् । प्रतियोगित्वस्यापि प्रतियोगिस्वरूपस्य योग्यत्वादुत्पत्तिक्षणस्य तथाभिव्यञ्जकत्वेनानतिप्रसङ्गाच्च, पैरपि चरमकारणसामग्रीव्यङ्गयत्वं प्रागभावस्य प्रतिपाद्यते, तैरपि यादृशकारणकलापानन्तरं कार्योत्पादो दृष्टस्तादृशबुद्धेरेव व्यञ्जकत्वमुपेयमुक्तसामग्र्याः स्वरूपसत्याः स्वरूपेण ज्ञाताया वा व्यञ्जकत्वेऽतिप्रसङ्गाद्, व्याप्यत्वेन ज्ञातायास्तत्त्वोक्तौ प्रागभावानुमितेरेवोपपत्तेः, तत्प्रत्यक्षानवकाशात् , तद्वरमुत्पत्तिक्षणस्यैव प्रागभावप्रतियोगित्वेन घटप्रत्यक्षजनकत्वं कल्पनीयमिति, विषयसन्निकर्षादेः कार्यसहभावेन हेतुत्वे चरमसामग्रीकाल एव प्रागभावप्रत्यक्षोपगमे तु प्राग् नासीद् घट इति कथमप्युपपादयितुमशक्यम् । तदा घटप्रागभाव आसीदित्यर्थस्याप्यनुपपत्तेः, तदा भविष्यतीत्याकारप्रत्यक्षं च शिरोमणिनैव दूषितम् , “भविष्यत्वं हि न वर्तमानप्रागभावप्रतियोगित्वम्, श्वो भाविन्यद्य भविष्यतीतिप्रत्ययप्रसङ्गात् । किन्तूत्पत्स्यते भविष्यतीत्यादेः समानार्थकत्वात् वर्तमानप्रागभावप्रतियो * * * ॥१५२॥ * For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy