SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir 2056 शब्दानामारम्भकपुद्गले तद्देशकालवर्त्तिन्युपादाने सहकारिणि च बहिरङ्गे ताल्वादिकरणे वक्तृविज्ञानस्य वर्णोत्पत्ती सहकारिकारणस्याऽऽन्तरस्य क्रममपेक्ष्य क्रमोत्पत्तौ परिणामिनां न किञ्चिद्विरुद्धं पश्यामः, कारणक्रमानुविधायित्वात्सर्वत्र कार्यक्रमस्य, शश्वदपरिणामिनामेव तथाविरोधदर्शनात् । नापि श्रोतृविज्ञानस्य शब्दकार्यस्य क्रममपेक्ष्य वर्णक्रमप्रतिपत्तौ किञ्चिद्विरुद्धं पश्यामः, प्रमाणक्रमानुविधायित्वात्तत्फलभूतप्रमितिक्रमस्य सततमपरिणामिनामेवात्मना तद्विरोधनिर्णयात् । तन्न संकुला श्रुतिः स्याद्वादिनां प्रसज्येत । सर्वगतानामेष क्रमो दुष्करः स्यात् । ततः क्रमोत्पत्तिप्रतिपत्त्योरन्यथानुपपत्त्या न सर्वगता वर्णाः, नापि नित्याः प्रत्येतव्याः। ननु च नित्या वर्णाः, प्रत्यभिज्ञानादात्मादिवदिति चेत्, क्षणिकेष्वेव करणाङ्गहारादिषु प्रत्यभिज्ञानाद्विरुद्धो हेतुः । एतेन बुद्धिभिव्यभिचारी च हेतुरुक्तः, बुद्धिकर्मभ्यां व्यभिचार इत्यभिधानात् । ननु बुद्धिकर्मणोरपि नित्यत्वोपगमान्नायं दोषः, ते अपि नित्ये इति वचनात् , तथोपगमे विरोधाभावादिति चेत्, तरिक्रयैकत्वेपि किमिदानीमनेकं स्यात् ? तथा बुद्धयेकत्वेपि न किश्चिदनेकं स्यादित्यपि प्रतिपत्तव्यम् , सर्ववर्णैकत्वप्रसङ्गात् । शक्यं हि वक्तुम् , अभिव्यञ्जकभेदाद्वैश्वरूप्यं जलचन्द्रवत्, कचित्प्रत्यक्षविरोधे तदन्यत्राप्यविरोध: कुतः ?, यथैव हि नानादेशजलप्रतिबिम्बितस्य चन्द्रस्यानेकत्वप्रतीतावपि परमार्थतश्चन्ट्रैकत्वं तथैव नानादेशव्यञ्जकभेदादकारादिवर्णनानात्वप्रतीतावपि वणकत्वमिति बदतः कः प्रतिघातः ? प्रत्यक्षविरोधो वर्णकत्ववचने स्यान्न पुनः क्रियाद्येकत्ववचने याज्ञिकस्येति कुतो विभागः सिध्येत् ?, ततो वर्णाद्वैतमनिच्छता न करणाङ्गहारादिक्रियैका वक्तव्या, येन शब्दस्य नित्यत्वसाधने प्रत्यभिज्ञानं विरुद्धं न स्यात् । तदयं ताल्वादिव्यापारजनितश्रावणस्वभावं परित्यज्य विपरीतस्वभावमासादयन्नपि नित्यश्चेत् , न किञ्चिदनित्यम् । तदेवमकारादिवर्णखिजगत्यामेक एवेत्यपि निरस्तम् , युगपद्भिनदेशस्वभावोपलब्धेर्घटादिवत् । भानुनानेकान्त इति चेत्, न, तस्य सकृद्भिनदेशतयोप -60 For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy