SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir अष्टसहस्त्री विवरणम् ॥ ॥१४९॥ परिच्छेदः प्रथमः॥ त्तिकरणे समर्थोऽसमर्थो वा ?, स्वसंवित्त्युत्पत्तौ कारणान्तरापेक्षा मा भूत् तत्करणसमर्थस्य । अन्यथा स्वयमसमर्थस्य सहकारीन्द्रियमनोभिव्यञ्जकव्यापारलक्षणं किमस्यासामर्थ्य खण्डयत्याहोस्विन्नेति पक्षद्वितयम् । तदसामर्थ्यमखण्डयदकिश्चित्करं किं सहकारिकारणं स्यात् ? तत्खण्डने वा स्वभावहानिरव्यतिरेकात् व्यतिरेके व्यपदेशानुपपत्तिः । इति पूर्ववत्सर्वम् , शब्दासामर्थ्ययोः परस्परमनुपकारकत्वाविशेषात् । शब्दस्य हि तदसामर्थेनोपकारः क्रियमाणस्तस्मादभिन्नश्चेत्, स एव कृतः स्यादिति तन्नित्यत्वहानिः । भिन्नश्चेत्सम्बन्धासिद्धिः, अनुपकारात् । तदुपकारान्तरे वा स एव पर्यनुयोग इत्यनवस्था प्रधानतत्परिणामव्यतिरेकपक्षवत् । किश्च वर्णाः सर्वे नित्यसर्वगतास्तद्विपरीता वा ?, न तावद्वितीयः पक्ष:, अनभ्युपगमात् । प्रथमपक्षे तु वर्णानां व्यापित्वान्नित्यत्वाच्च क्रमश्रुतिरनुपपन्नैव, देशकालकृतक्रमासंभवात् । तदभिव्यक्तिप्रतिनियमात्तेषां क्रमश्रुतिरिति चेत् , न, अस्मिन्नपि पक्षे समानकरणानां तादृशामभिव्यक्तिनियमायोगात् सर्वत्र सर्वदा सर्वेषां संकुला श्रुतिः स्यात् । समानं हि करण वर्णानां श्रुतौ श्रोत्रं, नीलपीतादीनां रूपविशेषाणां दृष्टौ चक्षुवत् । ततस्तेषामेकव्यञ्जकव्यापारेपि समानदेशकालानां कथमभिव्यक्तिनियमो नीलादिवत् ? कचिदेकत्रैकदापि च सर्ववर्णाभिव्यक्तीसर्वत्र सर्वदाभिव्यक्तिस्तेषां स्वरूपेणाभिव्यक्तत्वात् तत्स्वरूपस्य च व्यापिनित्यत्वात् । स्वण्डशस्तदभिव्यक्तौ वर्णानां व्यक्तेतराकारभेदाढ़ेदप्रसक्तः प्रत्येकमनेकत्वापत्तिरेकानेकात्मकत्वप्रसङ्गो वा । सर्वात्मनाभिव्यक्तौ सर्वदेशकालवर्तिप्राणिनः प्रति तेषामभिव्यक्तत्वात् कथं सर्वत्र सर्वदा सर्वेषां सङ्कला श्रुतिर्न स्याद्यतः कलकलमात्र न भवेत् । ननु समानोपादानकारणानामभिन्नदेशकालानां समानकारणानामुत्पत्तावपि तद्देशकालवतिसकलपुरुषाणामविकलसहकारिणां कथं न संकुला श्रुतिः स्यात्, क्रमश्रुतिर्वा न विरुध्येत? इति चेत् , अत्रोच्यते, वक्तृश्रोतृविज्ञानयोस्तत्कारणकार्ययोः क्रमवृत्तिमपेक्ष्य परिणामिनां क्रमोत्पत्तिप्रतिपत्त्योर्न किश्चिद्विरुद्धं पश्यामः । समानेपि हि १४९॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy