SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir कारणतावच्छेदककोटौ प्रतियोगितावच्छेदकविषयतानिवेशे मानाभावाव्यत्वेन घटस्य संयोगेनारोपस्थले घटत्वावच्छिन्नप्रतियोगिताकाभावांशे द्रव्यत्वेन घटप्रतियोगिकत्वभ्रमजनकदोषाभावे नेत्याकारकप्रत्यक्षापत्तिवारणाय प्रतियोगितावच्छेदकप्रकारकज्ञानस्य पृथग्घेतुत्वमावश्यकम् , प्रतियोग्यारोपजनकतावच्छेदककोटौ प्रतियोगितावच्छेदकविषयतानिवेशे सम्बन्धमेदे| नानन्तकारणतावच्छेदकगौरवप्रसंगात् , दीधितिकृतस्तु प्रतियोग्यंशे विशिष्टवैशिट्यविषयताशून्यस्य विशेष्ये विशेषणं तत्र च | विशेषणान्तरमिति विषयताशालिनोऽभावप्रत्ययस्यानभ्युपगमेनेन्द्रियसम्बन्धविशेषणतायाः फलजनने घटत्वादिविशिष्टवैशिष्ट्यबुद्धि प्रति हेतुत्वेन क्लप्सस्य घटत्वादिप्रकारकज्ञानस्य सहकारित्वस्वीकारेणैव नेत्याकारकप्रत्यक्षवारणस्य शक्यतयाऽभावबुद्धि प्रति प्रतियोगिज्ञानस्य हेतुत्वकल्पनं निरर्थकमेवेत्याहुः॥ तत्रेदं चिन्त्यते ॥ अभावप्रत्यक्षे जननीये इन्द्रियसम्बद्धविशेषणताया | घटत्वप्रकारकज्ञानस्येव पटत्वप्रकारकज्ञानस्यापि सहकारित्वं स्वीकरणीयम् , अन्यथेन्द्रियसम्बद्धविशेषणताबलात्पटत्वावच्छिनाभावप्रत्यक्षस्य पटत्वप्रकारकज्ञानशून्यकालेऽप्युत्पत्त्यापत्तेः, तथा च पटत्वप्रकारज्ञानसत्वे इन्द्रियसम्बद्धविशेषणतारूपकारणबलाद् घटाभावप्रत्यक्षापत्तिः, न चेष्टापत्तिः, तदा घटाभावांशे पटभ्रमजनकदोषाभावेन पटस्य घटज्ञानासत्वे च घटस्थाभावेन नेत्याकारकप्रत्यक्षपर्यवसानात्, न च घटाभावादिनिष्ठेन्द्रियसम्बद्धविशेषणताया घटत्वाद्यवच्छिन्नविषयतानिरूपिताऽभावनिष्ठलौकिकविषयतासम्बन्धेन प्रत्यक्षहेतुत्वे तस्यां घटत्वप्रकारकज्ञानस्य सहकारित्वानोपदर्शितापत्तिः, न च पटत्वप्रकारकपटज्ञानकाले घटाभावांशे तज्ज्ञानजनकीभूतदोषसत्वे घटत्वावच्छिन्नप्रतियोगिताकाभावप्रत्यक्षानुपपत्तिघटाभावनिष्ठविशेषणतायाः फलजनने पटत्वप्रकारकज्ञानतथाविधदोषादीनामपि सहकारित्वादिति वाच्यम् , विषयभेदेनेन्द्रियसम्बद्धविशेष SEX For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy