________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
अष्टसहस्री
| परिच्छेद प्रथमः॥
विवरणम् ॥ ॥१४॥
त्वात् प्रतियोगितया घटबढुद्धेः साम्राज्यात् , न हि संयोगसम्बन्धावच्छिन्नाधारतया गगनाद्यभाववत्तानिर्णयेऽपि संयोगमात्रेण गगनादिमत्ताबुद्ध्यनुदय इति । यदपि एके धर्मधर्मितावच्छेदकीकृत्य विरुद्धभावोभयप्रकारकनिर्णयानभ्युपगमात् शुद्धप्रतियोगितासम्बन्धावच्छिन्नप्रतियोगिताकघटाभाववत्तारूपबाधस्यैव प्रकृते शरणीकरणीयत्वेन संयोगसम्बन्धावच्छिन्नप्रतियोगितासम्बन्धावच्छिन्नतत्प्रतियोगिनिष्ठप्रतियोगिताकाभावनिर्णयेऽपि शुद्धप्रतियोगितासम्बन्धेनाभावांशे घटविषयकस्य घटो नास्तीत्याकारकस्याभावप्रत्यक्षस्योत्पत्तौ बाधकाभावेन प्रतियोग्यमिश्रिताभावलौकिकप्रत्यक्षापत्त्यसम्भवः, तदुक्तं--'पदार्थमालायां तद्दशायामपि सामान्यतः प्रतियोगिवैशिष्ट्यधीसम्भवादिति, सामान्यत इत्यस्य शुद्धप्रतियोगितासम्बन्धेनेत्यर्थ इति, तदपि न क्षोदक्षमम् , तादृशनिर्णयासम्भवेऽपि प्रतियोगितासम्बन्धन घटोऽवृत्तिरिति ज्ञानस्य प्रतिबन्धकस्य जागरूकतया | तथाविधज्ञानकाले नेत्याकारकघटाभावलौकिकप्रत्यक्षापोर्विनोपदर्शितप्रकारं ब्रह्मणोऽपि दुर्वारत्वादिति ध्येयम् । अथ भूतलादौ संयोगसंसगर्कघटप्रकारकनिर्मितावच्छेदकज्ञानदशायां तत्र संयोगसमवायादियावत्सम्बन्धावच्छिन्नप्रतियोगिताकघटाभावलौकिकप्रत्यक्षापत्तिवारणाय समानविशेष्यतया तत्सम्बन्धावच्छिन्नतदभावलौकिकप्रत्यक्षं प्रति तेन सम्बन्धन प्रतियोग्यारोपस्य हेतुत्वं कल्प्यत इति तत एव प्रतियोग्यमिश्रिताभावलौकिकप्रत्यक्षवारणात् किं तत्र प्रतियोगिज्ञानहेतुनेति चेत्, न, तत्स|म्बन्धेन तदारोपनियामकादेवाभावबुद्धौ सम्बन्धनियमोपपत्तावारोपहेतुतायां मानाभावात् , अस्तु वा तत्सम्बन्धावच्छिन्नप्रतियोगिताकाभावप्रत्यक्षे तत्सम्बन्धवत्ताज्ञानं हेतुः, न तु तेन सम्बन्धेन तदारोपोपि, गौरवात् , तथा च प्रतियोग्यमिश्रिताभावलौकिकप्रत्यक्षापत्तिवारणाय प्रतियोगिज्ञानहेतुताऽऽवश्यकीति। अस्तु वाऽभावप्रत्यक्षे प्रतियोग्यारोपहेतुता, तथापि तत्र
ARSAKX**ARA
॥१४॥
For Private And Personal Use Only