________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
परिच्छेदः प्रथमः॥
अष्टसहस्री|| सामर्थ्यभेदादनेकत्वप्रसङ्गात् । क्षणवर्तिन एकस्मात्कारणस्वभावमभेदयतां विचित्रकर्मणामुत्पत्तौ कूटस्थेपि किं न स्यात् क्रमशः कार्योविवरणम् ॥ त्पत्ति: ? तस्यापि तथाविधैकस्वभावत्वात् । कथमत्रोत्सत्तिनीम ? तत्र समानः पर्यनुयोगः, सदसतोरनुत्पत्तेर्निष्पन्नखपुष्पवत् । नित्यं
कथमुत्पद्यते सत्त्वान्निष्पन्नवदिति पर्यनुयुज्यते, न पुनः क्षणिकं कथं प्रादुर्भवेत् ? असत्त्वात्खपुष्पवदिति पर्यनुयोगाई मिति पक्षपात॥१३१॥
मात्रम् । सतः पुनर्गुणान्तराधानमने क्रमशोप्यनुभवतः किं विरुध्येत, ? | नन्वेकत्वं विरुध्यते । स हि गुणान्तराधानमने क्रम| शोनुभवन् यद्येकेन स्वभावेनानुभवेत्तदा तस्यैकस्वभावतापत्तिः, अन्यथा निर्हेतुकत्वप्रसङ्गात्, तदनुभवनस्य नियमायोगात् । अथानेकेन स्वभावेन तदनुभवेत्तदा कथमेकस्वभावता तस्य । अनेकस्वभावस्य ततो भेदात्तस्यैकरूपत्वे कुतोयमस्यानेकस्वभावः ? संबन्धात्तस्य स इति कल्पनायां स संबन्धः स्वस्वभावैर्गुणान्तराधानानुभवनहेतुः किमेकेन स्वभावेन स्यादनेकेन वेति स एव पर्यनुयोगोऽनवस्था च । इति कश्चित् । सोपि दूषणाभासवादी, स्वयमिष्टस्यैकस्य ज्ञानस्य ग्राह्यप्राहकाकारवैश्वरूप्यविरोधप्रसङ्गात्, प्रकृतपर्यनुयोगस्याविशेषात् । क्षणस्थायिनः कस्यचिदेव ग्राह्यग्राहकाकारवैश्वरूप्यानभ्युपगमेपि संविदितज्ञानस्य ग्राह्यग्राहकाकारविवेकं परोक्षं बिभ्राणस्य सामर्थ्यप्राप्तेः, संवेदनस्यैकस्य प्रत्यक्षपरोक्षाकारतया वैश्वरूप्यसिद्धेः । संविद्रूपतया संवेदनस्य प्रत्यक्षतैव ग्राह्यग्राहकाकारविविक्ततयापि प्रत्यक्षता, न पुनः परोक्षता यतो वैश्वरूप्यं प्रकृतपर्यनुयोगयोग्य भवेदिति चेत्, न, तथा सकृदयप्रतिभासनाद्ब्रह्माद्वैतवत् , ग्राह्यग्राहकाकाराकान्तस्यैव सर्वदा वेदनस्यानुभवात् । ततः संवेदनमेकमने प्रत्यक्षपरोक्षाकारौ बिभ्रागं सामर्थ्यप्राप्तमेव, अन्यथा शून्यसंविदोर्विप्रतिषेधात्। ग्राह्यग्राहकाकारशून्यतया हि शून्यम्। संवेदनमात्रमुप(वर्ग)यतस्तत्संविदुपपद्यते, न पुनः संविन्मात्रमप्यसदुपवर्णयतो, विप्रतिषेधात्स्वेष्टासिद्धेः प्रलापमात्रप्रसक्तेः । तदर्थ योगाचारः सौत्रान्तिको वा सर्वथा शून्यं संविद्वैतं वानिच्छन् , क्षण
॥१३॥
For Private And Personal Use Only