SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्री विवरणम् ।। ॥१३०॥ www.kobatirth.org घेघेन तद्बाध्यते इति चेत्, क्रमाक्रमयोः प्रतिषेधात्, तयोरनेकान्तेन व्याप्तत्वात् तत्प्रतिषेधेन तत्प्रतिषेधसिद्धेः । क्रमाक्रमप्रतिषेधे चार्थक्रियाप्रतिषेधः, तस्यास्ताभ्यां व्याप्तत्वात् अर्थक्रियाप्रतिषेधे च कर्मादिकं विरुध्यते, तस्य तया व्याप्तत्वात् यदि वानेकान्तप्रतिषेधेन क्षणिकाद्ये कान्तविरोधः, तदेकान्तस्याने कान्ताविनाभावित्वात् । तस्यापि स्वरूपेण सत्वेऽनेकान्तरूपेण चासत्त्वव्यवस्थायामनेकान्तस्य दुर्निवारत्वात्तदविनाभावित्वं सिद्धमेव, अन्यथा तद्द्व्यवस्थानुपपत्तेः । इति परवैरित्वात्स्ववैरित्वम् । तथा च कथं कर्मादिकमनाश्रयं न विरुध्यते ? ततोनुष्ठानमभिमतव्याघातकृत्, सदसन्नित्यानित्याद्येकान्तेषु कस्यचित्कुतश्चित्कदाचित्कचित्प्रादुर्भावासंभवात् । ननु च 'कस्यचित्कर्मणः पुण्यपापाख्यस्य कुतश्चिदनुष्ठानात्कायादिव्यापारलक्ष गात्कचिदात्मनि कदाचित्संसारिदशायां जन्म मा भूत् सर्वथा सतस्तदघटनात् कर्मफलस्य वा शुभाशुभपरलोकलक्षणस्य कर्मविशेषात् तत्वज्ञानादेव निश्श्रेयसस्य सर्वथा सद्भावाविशेषात् । तस्यासतस्तु ततो जन्मास्तु, प्रागसतः पश्चात्प्रादुर्भावदर्शनात् इति चेत्, न, उभयत्र तद्विरोधाविशेषात् । न हि सर्वात्मना सर्वस्य भूतावेव जन्म विरुद्धमपि तु सर्वथाऽभावेपि व्यलीकप्रतिभासानामनुपरमप्रसङ्गात् । ननु च शून्यवादिनः स्वप्नदशायामिवान्यदापि व्यलीकप्रतिभासानां कर्मादीनां कथमनुपरमप्रसङ्गो यतः संवृत्या कर्मादिजन्माविरुद्धं न भवेदिति चेत्, न, साध्यसमत्वादुदाहरणस्य । यथैव ह्यस्वप्नदशायां व्यलीकप्रतिभासानामहेतुकत्वादनुपरमप्रसङ्गः शून्यवादिनां तथा स्वप्नावस्थायामपि, तदविशेषात् । तेषामविद्यावासनाहेतुकत्वादहेतुकत्वमसिद्धमिति चेत्, न, अनाद्यऽविद्यावासनाया अप्यसत्त्वे वितथप्रतिभासतुत्वविरोधात् खपुष्पवत् सत्त्वे वा सर्वथा शून्यवादानवतारात् । संवृतिसत्त्वात्तस्याः शून्यवादावतार इति चेत्, तर्हि परमार्थतोऽसत्यविद्या कथं वितथप्रतिभासहेतुः स्यात् ? स्वरूपेण सदेव हि किचिद्वितथप्रतिभासानपि जनयद्दृष्टं यथा चक्षुषि तिमिरादिकं, न For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir परिच्छेदः प्रथमः ॥ ॥१३०॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy