________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shet Kailassagarsuri Gyanmandie
प्रयोगे व्यर्थविशेष्यत्वमपि दूषणमभ्युपयन्ति तान्त्रिका इति दिग् । तदिष्टौ (११) समर्थनाभ्युपगमे, तद्वचनं निगमनादि | वचनम् , एवं (१२३-२-३) असाधनाङ्गवचनस्य निग्रहाधिकरणत्वाभावे, द्वादशलक्षणप्ररूपणस्य (३) इन्द्रियपञ्चकविषयपचकमानसधर्मायतनरूपद्वादशायतनोपन्यासस्य, तत्सिद्वथैव (४) स्वपक्षसिद्ध्यैव, अनेन स्वपक्षसिद्ध्यसिद्ध्योरेव जयपराजयप्रयोजकत्वस्थापनेन, साधनासाधनाङ्गोक्त्यनुक्त्योः स्वातन्त्र्येण निग्रहस्थानत्वासिद्धेरित्यर्थः । स्वपक्षपरपक्षसाधनदूष
णमिति (७) स्वपक्षसाधनं परपक्षपणं चेत्यर्थः । अन्यतरेण (७) वादिना प्रतिवादिना वा, कस्यचिदिति (८) यस्यैव न | पक्षसिद्धिस्तं प्रत्येव जल्पव्यापारानुपरमादित्यर्थः ॥ ७॥
कुशलाकुशलं कर्म परलोकश्च न क्वचित् । एकान्तग्रहरक्तेषु नाथ स्वपरवरिषु ॥८॥ कायवाङ्मनःक्रिया कर्म, त्रिविधो योग आस्रवः। तद् द्विविधं कुशलाकुशलभेदात् , “कायवाङ्मनःकर्म योगः," "स आस्रवः," "शुभः पुण्यस्याऽशुभः पापस्य” (तत्त्वार्थ अ०६) इति वचनात्।प्रेत्यभावः परलोकः। तद्धेतुर्वा धर्मोऽधर्मश्च, कारणे कार्योपचारात् । चशब्दान्निःश्रेयसादिपरिग्रहः । एतत्सर्वमेकान्तग्रहरक्तेष्वनित्यैकान्ताद्यभिनिवेशपरवशीकृतेषु मध्ये नक्कचित्संभवति, तेषां स्ववैरित्वात् तत्वोपप्लववादिवत्। स्ववैरिणस्ते, परवैरित्वात्तद्वत्। किं पुनः स्खं को वा परः? पुण्यं पापं च कर्म तत्फलं कुशलमकुशलं च स्वम् तत्सम्बन्धः परलोकादिश्च, तस्य स्वयमेकान्तवादिभिरिष्टत्वात् । परः पुनरनेकान्तः, तस्य तैरनिष्टत्वात् । तद्वैरित्वं तु तेषाम् । तत्प्रतिषेधाभिधानात् । तत्स्ववैरित्वं साधयति, यस्मात् कर्मफलसंबन्धपरलोकादिकमेकान्तवादिनां प्रायेणेष्टं तदनेकान्तप्रतिषेधेन बाध्यते । ननु च शून्यवादिभिद्वैतावलम्बिभिश्च तस्यानिष्ठत्वात्कथं सर्वेषामेकान्तवादिनां तदिष्टमिति चेत्, न, तैरपि संवृत्या प्रायेणेष्टत्वात् । कथं पुनरनेकान्तप्रति
स
For Private And Personal Use Only