________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
अष्टसहस्त्री विवरणम्॥
परिच्छेदः प्रथमः॥
॥११७॥
SAKACCACACCRACCAS
तदभावेपि नानापीतादिप्रतिभाससद्भावात्तदविरोधात् । नन्वेवं 'नीलवेदनस्यापि प्रतिपरमाणु भेदानीलाणुसंवेदनैः परस्परं भिन्नैर्भवितव्यम् । तत्रैकनीलपरमाणुसंवेदनस्याप्येवं वेद्यवेदकसंविदाकारभेदात्रितयेन भवितव्यम् । वेद्याकारादिसंवेदनत्रयस्यापि प्रत्येकमपरस्ववेद्याकारादिसंवेदनत्रयेण इति परापरवेदनत्रयकल्पनादनवस्थानान्न क्वचिदेकवेदनसिद्धिः संविदद्वैतविद्विषाम् । कचिदप्येकात्मकत्वानभ्युपगमे च कुतो नानात्मव्यवस्था ? वस्तुन्येकत्रापरैकवस्त्वपेक्षयानेकत्वव्यवस्थोपपत्तेः । कचिदैक्योपगमे था कथं चित्रमतौ नैक्यमविरुद्धं ? चित्राकारापायेपि तस्य सम्भवात् ।' इति कश्चित् , सोप्यप्रेक्षापूर्ववादी, तथा सति चित्रज्ञाने संविदाकारवदेकस्य पीताकारस्य नीलाकारस्य च सद्भावसिद्धौ परस्परापेक्षयानेकत्वसिद्धेरनेकचैतन्यव्याप्तस्यानेकाकारस्य चित्रज्ञानस्यान्तरेकानेकात्मकत्वसाधने निदर्शनत्वोपपत्तेः । स्यान्मतं, सुखादीनां चैतन्यं व्यापकं भवत् किमेकेन स्वभावेन भवत्यनेकेन स्वभावेन
वा? यद्येकेन तदा तेषामेकस्वरूपत्वापत्तिः । अथानेकेन तदा सोप्यनेकस्वभावः परेणानेकेन स्वभावेन व्यापनीय इत्यनवस्था । ४ा अथैकादशेन स्वभावेन सुखादयश्चतन्येन व्याप्यन्ते तदानेकेन स्वभावेन सजातीयेनेत्युक्तं स्यात् । तत्र च सैवानवस्था । न च गत्यन्तर
मस्ति येन सुखादिव्याप्यैकं चैतन्यं सिद्धयेदिति । तदेतच्चित्रज्ञानेपि समानम् । तस्य पीताद्याकारव्यापिनः स्वयं संवेदनान्न दोष इति चेत्, सुखादिव्यापिनश्चैतन्यस्य सह क्रमेण च स्वयं संवेदनात्कथमुपालम्भः स्यात् ? न हि दृष्टेऽनुपपन्नं नाम । न च सुखादीनां चैतन्यव्याप्तत्वसंवेदनं भ्रान्तम् , अचेतनत्वग्राहिप्रमाणाभावात् । अचेतनाः सुखादयः, उत्पत्तिमत्त्वाद्, घटादिवदित्यनुमानं सुखाद्यचेतनत्वग्राहीति चेत् , न, तस्य प्रत्यक्षबाधितविषयत्वात्, चित्समन्वितानामेव सुखादीनां स्वसंवेदनप्रत्यक्षे सर्वदाप्रतिभासनात् । अनुमानविरुद्धश्च पक्षः । तथा हि । चेतनाः सुखादयः, स्वसंवेद्यत्वात् पुरुषवत् । पुरुषसंसर्गात्तेषां स्वसंवेद्यत्वात्स्वतः संवेद्यत्वमसिद्धमिति चेत् , न,
॥११७॥
For Private And Personal Use Only