________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersun Gyanmandir
SARASHTRA
मेव न पुनरेकात्मकं, सुखचैतन्यादाहादनाकारान्मयबोधनाकारस्य विज्ञानस्यान्यत्वाद्, विरुद्धधर्माध्यासस्यान्यत्वसाधनत्वाद् , अन्यथा विश्वस्यैकत्वप्रसङ्गात्" इति तदसत्, चित्रज्ञानस्याप्येकात्मकत्वाभावप्रसङ्गात् पीताकारसंवेदनस्य नीलाद्याकारसंवेदनादन्यत्वात् , तद्वद्विरुद्धधर्माध्यासात् । यदि पुनरशक्यविवेचनत्वात्पीताद्याकारसंवेदनमेकात्मकमुररीक्रियते तदा सुखादिसंवेदनेन कोऽपराधः कृतः ? तस्याप्यशक्यविवेचनत्वादेवैकात्मकत्वोपपत्तः, पीताद्याकाराणामिव सुखाद्याकाराणां चैतन्यान्तरं नेतुमशक्यविवेचनत्वसद्भावात्। तहखेंकात्मकमेव सुखादिचैतन्यं न पुनरसंकीर्णविशेषात्मकमित्यपि न मन्तव्यं, चित्रज्ञानस्याप्यसंकीर्णविशेषात्मकत्वाभावप्रसङ्गात् । तथा च सति न तचित्रमेकज्ञानवत् । चित्रज्ञाने पीताद्याकारप्रतिभासस्याविद्योपकल्पितत्वादेकात्मकत्वमेव वास्तवमिति चेत्, कथमेकानेकाकारयोः प्रतिभासाविशेषेपि वास्तवेतरत्वप्रविवेकः ? एकाकारस्यानेकाकारेण विरोधात्तस्यावास्तवत्वे कथमेकाकारस्यैवावास्तवत्वं न स्यात् ? स्वप्नज्ञानेऽनेकाकारस्यावास्तवस्य प्रसिद्धेश्वित्रज्ञानेपि तस्यावास्तवत्वं युक्तं कल्पयितुमिति चेत् , केशादावेकाकारस्याप्यवास्तवत्वसिद्धेस्तत्रावास्तवत्वं कथमयुक्तम् ? पीताद्याकारस्य संवेदनादभेदेनैकत्वविरोधाइँदे प्रतिभासासम्भवात् , प्रतिभासे वा संवेदनान्तरत्वापत्तेरवास्तवत्वमेवेति चेत्, तत एवैकाकारस्यावास्तवत्वमस्तु, तस्यापि पीताद्याकारप्रतिभासेभ्योनन्तरतायामेकत्वविरोधादर्थान्तरतायां संवित्यभावात् , संवित्तौ वा ज्ञानान्तरत्वप्रसक्तेर्विशेषाभावात् । ततो न चित्रज्ञानेऽनेकाकारप्रतिभासस्यैव प्रेक्षावद्भिरवास्तवत्वं शक्य कल्पयितुम् , येनेदमेवाभिधीयमानं शोभेत "किं स्यात्सा चित्रतैकस्यां न स्यात्तस्यां मतावपि । यदीदं स्वयमर्थेभ्यो रोचते तत्र के वयम्" ॥१॥ इति । पुनरिदमपि, "किं नु स्यादेकता न स्यात्तस्यां चित्रमतावपि । यदीदं रोचते बुद्धयै चित्रायै तत्र के वयम्" ॥२॥ इति । ननु चैकस्यां मतौ चित्रतापायेपि संवेदनमात्रस्य भावान्न स्वरूपस्य स्वतो गतिर्विरुद्ध्यते । संवेदनमात्रस्य त्वपाये सा विरुद्ध तेति चेत्, न,
SSCOMSXSS4006*
SN
For Private And Personal Use Only