SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Maharlain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersun Gyanmandi इह दृष्टान्तावचनं त्विति (१००-१-१३) हेतुर्यद्यपि हेतुगर्भविशेषणमहिम्नैव हेतुहेतुमद्भावलाभात् तथापि दृष्टान्तलामे शाब्दसामग्री न व्याप्रियत इत्याक्षेपात् तल्लाभः शब्दाध्याहाराच्च शाब्दबोधे प्रवेश इति संक्षेपान विरुध्यत इत्यनेनोच्यत इति विभावनीयं सुधीभिः । 'अन्यथानुपपन्नत्वेत्यादि' (१००-१-१३) पक्षधर्मत्वादिपञ्चरूपोपपन्न एव हेतुरिति नैयायिकाः त्रिरूपोपपन्न इति सौगताः । अन्यथानुपपत्त्येकलक्षणो हेतुरिति जैना इति विभागात् स्वाभीष्टचरमपक्षप्राधान्यं स्फोटयितुमि त्यर्थः, चिद्विवर्त्तत्वात् (१००-२-१०) वित्त्वव्याप्तकार्यत्वादिच्छादीनामपि चिदनुस्यूतत्वेन चैतन्योपादानकारणकत्वस्या४भीष्टत्वादित्यर्थः। पूर्वचिद्व्याप्तक्षणोपमर्दैनोत्तरचिद्व्याप्तक्षणोत्पत्तेः, परस्परं तेषामुपादानोपादेयभावस्य चार्वाकेणाभ्युपग| मात्, न चैवंभूतोपादेयचैतन्यवादे भूतानामपि चिद्विवर्चत्वादाद्यचैतन्यस्य भूतात्मकचैतन्योपादेयत्वेनार्थान्तरत्वम् , अवशिष्टभूते घटादौ चैतन्यादर्शनेन चिद्विवर्त्तत्वेन भूतव्यावृत्तेनैव प्रकृतोपादनसम्भवात् , तत्वं च तस्य विषयालोकमनस्कारादीनां परस्परसहभावनैयत्येऽपि नियतोपादानत्वाभ्युपगमवन्न दुष्कराभ्युपगममिति दिक् । जातिरेव (१०१-१-२) असदुत्तरमेव, अर्थान्तरत्वेन निग्रहस्थानमेव वा प्रकृतानुमानप्रतिकूलानभिधानेन परस्यैव पराजयादिति भावः । तत्त्वान्तरभावविरोध इति (१०१-१-४) अत्र तत्त्वान्तरत्वं भिन्नपदार्थविभाजकोपाध्यवच्छिन्नत्वम् , पृथिव्यादिविवर्त्तमिति (१०१-१-५) पृथिव्यादिः पृथिवीत्वाद्यवच्छिन्नो विवर्त्तः पर्यायो यस्य तत्तथा, 'अनुपादानस्येति' (१०१-१-८) तथा च जन्यपृथिवीत्वाद्यवच्छिन्ने | पृथिवीत्वादिना समवायिकारणत्वं नैयायिकाद्यभ्युपगतमकामेनापि चार्वाकेणावश्यमाश्रयणीयमित्यर्थः । स्यावादिना तु तादात्म्येन पृथिवीत्वाद्यवच्छिन्ने स्वध्वंसत्वसम्बन्धेन पृथिवीत्वादीना हेतुत्वं वाच्यम् , विभागजातोत्पत्तिस्थलेऽपि व्यणुका For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy