________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
परिच्छेदः
अष्टसहस्री विवरणम् ॥ ॥१०८॥
प्रथमः॥
न हि सन्निकर्षस्य भावे भाववत्त्वमभावेऽभाववत्त्वमर्थपरिच्छित्तरप्रतीतम् । नाप्यर्थस्यान्यत् परिच्छिन्नत्वं,तत्परिच्छित्त्युत्पत्तेः। परिच्छित्तिरुत्पन्ना चेत् परिच्छिन्नोर्थ उच्यते । अथ निर्विकल्पकदृष्टौ सत्यामर्थस्य परिच्छित्तिनिश्चयात्मकार्थपरिच्छेदव्यवहारहेतुरुत्पद्यते नासत्याम् । अतस्तस्याः साधकतमत्वमिति तवाकूतं तदपि न समीचीनं, सन्निकर्षादेव तदुत्पत्त्यविरोधात् । कथमचेतनात्सन्निकर्षाचेतनस्यार्थनिश्चयस्योत्पत्तिर्न विरुध्यते इति चेत्, तवापि कथमचेतनादिन्द्रियादेरविकल्पदर्शनस्य चेतनस्योत्पत्तिरविरुद्धा? चेतनान्मनस्कारादिन्द्रियादिसहकारिणो दर्शनस्योत्पत्तिरिति चेत्, तर्हि चेतनादात्मनः सन्निकर्षसहकारिणोऽर्थनिश्चयोत्पत्तिरपि कथं विरुध्यते ? यतः स्वार्थव्यवसायात्मकोधिगमो न भवेत् । स च साकल्येन साध्यसाधनसम्बन्धस्तौदेवेति प्रमाणं तर्कः, स्वार्थाधिगमफलत्वात् समारोपव्यवच्छेदकत्वात्संवादकत्वाचानुमानादिवत् । ततः स्याद्वादिनां व्याप्तिसिद्धेरस्त्यनुमानं, न पुनरेकान्तवादिनां, यतोनुमानसिद्धन सर्वथैकान्तेनानेकान्तस्य बाधाकल्पना स्यात् । इत्यप्रमाणसिद्धेनापि बाधा कल्पनीयैव परैः, अन्यथा स्वमतनियमाघटनात् । तथा सति सूक्तं "परमतापेक्षं विशेषणं प्रसिद्धेन न बाध्यते" । इति । एतेन यदुक्तं भट्टेन " नरः कोप्यस्ति सर्वज्ञः स तु सर्वज्ञ इत्यपि । साधनं यत्प्रयुज्येत प्रतिज्ञामात्रमेव तत् ॥१॥ सिसाधयिषितो योर्थः सोनया नाभिघीयते । यस्तूच्यते न तत्सिद्धौ किश्चिदस्ति प्रयोजनम् ॥ २ ॥ यदीयागमसत्यत्वसिद्धौ सर्वज्ञतोच्यते । न सा सर्वसामान्यसिद्धिमात्रेण लभ्यते ॥ ३ ॥ यावद्धो न सर्वज्ञस्तावत्तद्वचनं मृषा । यत्र कचन सर्वज्ञे सिद्धे तत्सत्यता कुतः॥४॥ अन्यस्मिन्न हि सर्वज्ञे वचसोन्यस्य सत्यता । सामानाधिकरण्ये हि तयोरङ्गाङ्गिता भवेत् ॥५॥” इति तन्निरस्तं, भगवतोहत एव युक्तिशास्त्राविरोधिवाक्त्वेन सुनिश्चितासंभवद्वाधकप्रमाणत्वेन च सर्वज्ञत्ववीतरागत्वसाधनात् ततस्त्वमेव महान् मोक्षमार्गस्य प्रणेता नान्यः कपिलादिः । यस्मात्
॥१०८॥
For Private And Personal Use Only