________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ॥
॥१०६॥
www.kobatirth.org
शादेव न पुनरन्यादृशादपि, यतो धूमपावकयोर्व्याप्यव्यापकभावो न निर्णीयते, तथा यादृशं चूतत्वं वृक्षत्वेन व्याप्तं तादृशं न लतात्वेन, यतः शिशपात्ववृक्षत्वयोरपि व्याप्यव्यापकभावनियमो दुर्लभः स्यात्' इति कश्चित्सोपि प्रतीतेरपलापकः, कार्यस्य तादृशतया प्रतीयमानस्यापि कारणविशेषातिवृत्तिदर्शनात् । यत्नतः परीक्षितं कार्यं कारणं नातिवर्तते इति चेत्, स्तुतं प्रस्तुतं, व्यापारादिविशेषस्यापि किञ्चिज्ज्ञरागादिमदसंभविनो यत्नतः परीक्षितस्य भगवति ज्ञानाद्यतिशयानतिवृत्तिसिद्धेः । एतेन यत्नतः परीक्षितं व्याप्यं व्यापकं नातिवर्तते इति ब्रुवतापि स्तुतं प्रस्तुतमित्युक्तं वेदितव्यं पुरुषविशेषत्वादेः स्वभावस्य व्याप्यस्य सर्वज्ञत्वव्यापकस्वभावानतिक्रमसिद्धेस्तद्वदविशेषात् । ततोयं प्रतिपत्तुरपराधो नानुमानस्येत्यनुकूलमाचरति । मन्दतरधियां धूमादिकमपि परीक्षितुमक्षमाणां ततो धूमध्वजादिबुद्धेरपि व्यभिचारदर्शनात् । प्रज्ञातिशयवतां तु सर्वत्र परीक्षाक्षमाणां यथा धूमादि पावकादिकं न व्यभिचरति तथा व्यापारव्याहाराकारविशेषः कचिद्विज्ञानाद्यतिशयमपीत्यनुकूलाचरणम् । एवं युक्तिशास्त्राविरोधिवाक्त्वं, भगवतोर्हत एव सर्वज्ञत्वं साधयतीत्यभिधाय तदेवं तत् सुनिश्चितासम्भव द्वाधकप्रमाणत्वमर्हत्येव सकलज्ञत्वं साधयति नान्यत्रेत्यविरोध इत्यादिना स्पष्टयति, स्वामीति शेषः, यद्यस्मादविरोधः सुनिश्चितासंभवद्बाधकप्रमाणत्वं त्वय्येव तस्माञ्च त्वमेव स इत्यभिधानसंबन्धात् । स एवाविरोधः कुतः सिद्ध इत्यारेकायां यदिष्टं ते प्रसिद्धेन न बाध्यते इत्यभिधानात् । तत्रेष्टं मतं शासनमुपचर्यते, निराकृतवाचोपि क्वचिदविप्रतिषेधात् । न पुनरिच्छाविषयीकृतमिष्टं, प्रक्षीणमो भगवति मोह पर्यायात्मिकायास्तदिच्छायाः संभवाभावात् । तथा हि । नेच्छा सर्वविदः शासनप्रकाशननिमित्तं, प्रणष्टमोहत्वात् । यस्येच्छा शासनप्रकाशननिमित्तं, न स प्रणष्टमोहो यथा किचिज्ज्ञः । प्रणष्टमोहश्च सर्ववित्प्रमाणतः साधितस्तस्मान्न तस्येच्छा शासनप्रकाशननिमित्तम् । इति केवलव्यतिरेकी हेतुर्निराकृतवाचं साधयति, अव्यभिचारात् । न सर्वविदिच्छामन्तरेण वक्ति, वक्तृत्वात्, अस्मदादिवत् इत्यनेन
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः प्रथमः ॥
॥१०६॥