________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
विसंवादात्, क पुनराश्वासं लभेमहि ? न हि ज्ञानवतो वीतरागात्पुरुषाद्विसंवादः कचित्संभवति सुगतादावप्यनाश्वासप्रसङ्गात् तस्य कपिलादिभ्यो विशेषेष्टेरानर्थक्यप्रसङ्गात् । न च व्यापारव्याहाराकारविशेषाणां तत्र साङ्कर्यं सिद्ध्यति, विचित्राभिसन्धितानुपपत्तेः, तस्याः पृथग्जने रागादिमत्यज्ञे प्रसिद्धेः प्रक्षीणदोषे भगवति निवृत्तेः अस्य यथार्थप्रतिपादनाभिप्रायतानिश्चयात् । कुतञ्चायं सर्वस्य विचित्राभिप्रायतामदृश्यां व्यापार। दिसाङ्कर्यहेतुं निश्विनुयात् ? शरीरित्वादेर्हेतोः स्वात्मनीवेति चेत्, तत एव सुगतस्यासर्वज्ञत्ववयोस्तु । तत्रास्य हेतोः सन्दिग्धविपक्षव्यावृत्तिकत्वान्न तन्निश्वयः । शरीरी च स्यात्सर्वज्ञश्च, विरोधाभावात् विज्ञानप्रकर्षे शरीराद्यपकदर्शनादिति चेत्, तत एव सर्वज्ञस्य विचित्राभिप्रायतानिश्चयोपि मा भूत्, तत्रापि प्रोक्तहेतोः सन्दिग्धविपक्षव्यावृत्तिकत्वाविशेषात् । सोयं विचित्र व्यापारादिकार्यदर्शनात्सर्वस्य विचित्राभिसन्धितां निश्चिनोति न पुनः कस्यचिद्वचनादिकार्यातिशयनिश्चयात् सर्वज्ञत्वायतिशयमिति कथमनुन्मत्तः ? कैमर्थक्याच्चास्य सन्तानान्तरस्य सन्तानक्षणक्षयस्वर्गप्रापणशक्त्यादेर्विशेषस्येष्टिः ? विप्रकृष्टस्वभावत्वाविशेषात्, वेद्यवेदकाकाररहितस्य वेदनाद्वैतस्य वा विशेषस्य प्रमाणभूतस्य जगद्धितैषिणः शास्तुस्तायिनः शोभनं गतस्य सम्पूर्णं वा गतस्य पुनरनावृत्त्या सुष्ठु वा गतस्य विशेषस्येष्टिः ? सर्वत्रानाश्वासाविशेषात् । न चैवं वादिनः किञ्चिदनुमानं नाम, निरभिसन्धीनामपि बहुलं कार्यस्वभावानियमोपलम्भात् सति काष्ठादिसामग्रीविशेषे कचिदुपलब्धस्य तदभावे प्रायसोनुपलब्धस्य मण्यादिकारणकलापेपि संभवात् । यज्जातीयो यतः संप्रेक्षितस्तज्जातीयात्तादृगिति दुर्लभनियमतायां धूमधूमकेत्वादीनामपि व्याप्यव्यापकभावः कथमिव निर्णीयेत ?, वृक्ष: शिश पात्वादिति लताचूतादेरपि कचिदेव दर्शनात् प्रेक्षावतां किमिव निःशङ्कं चेतः स्यात् ? तदेतददृष्टसंशयैकान्तवादिनां विदग्धमर्कटानामिव स्वलाङ्गलभक्षणम् । ननु च 'काष्ठादिसामग्रीजन्योऽग्निर्यादृशो दृष्टो न तादृशो मण्यादिसामग्रीप्रभव इति यज्जातीयो यतो दृष्टः स ताह
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir