SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir CI 5CRAC%C नन्वस्तु नामैवं कस्यचित्कर्मभूभृद्भदित्वमिव विश्वतत्त्वसाक्षात्कारित्वं, प्रमाणसद्भावात् । स तु परमात्माईन्नेवेति कथं निश्चयो यतोहमेव महानभिवन्द्यो भवतामिति व्यवसिताभ्यनुज्ञानपुरस्सरं भगवतो विशेषसर्वज्ञत्वपर्यनुयोगे सतीवाचार्याः प्राहुः ॥५॥ ____ यथाऽग्न्यादिरिति (९४-१-८) तथा च कारिकायाम् 'अनुमेयत्वतोऽग्न्यादिः' इत्यत्राग्न्यादिरित्यतः प्राग् यथेत्यध्याहृत्य योजनीयम् , अन्यथा शाब्दबोधानुपपत्तेरिति ध्येयम् , तस्य स्वभावभेदाभावादिति (१४-२-३) यद्यपि स्वभावभेदाभावेऽप्यनुकूलतर्कानवतारे प्रयोजकत्वशङ्काहितव्यभिचारसंशयोऽनुमिति प्रतिवघ्नीयात् , स्वभावभेदेऽपि च क्षित्यादिकं सकर्तृकं कार्यत्वादित्यत्र कार्यत्वावच्छिन्नं प्रति कर्तृत्वेन कारणत्वनिश्चयाल्लाघवतर्कानवतारेणाप्रयोजकत्वमिति नैयायिकरिष्यते | तथा च प्रकृतेऽनुकूलतर्काभावादप्रयोजकत्वं स्यादिति शक्यं शङ्कितुम्, तथापि प्रकृते निरुपाधिसहचारस्यैवानुकूलतर्कस्य सत्त्वान्ना| प्रयोजकत्वमित्यत्र तात्पर्य द्रष्टव्यम् । ईश्वरसाधकानुमानखण्डनं तु मीमांसकेन कार्यत्वावच्छिन्ने कर्तृत्वेन हेतुतारूपानुकूलतर्कखण्डनेनैव विधेयम् , घटादौ कुलालादेविशिष्यहेतुत्वावश्यकत्वे सामान्यतः कार्यत्वावच्छिन्ने कर्तृत्वेन हेतुत्वे मानाभावात् , 'यद्विशेषयोः' इत्यादिन्यायस्य नियुक्तिकत्वादन्यथा करणस्याप्येकस्य सिद्ध्यापत्तेः, यत्तु घटत्वावच्छिन्नेऽपि न कुलालत्वादिना कुलालादिकृतित्वादिना वा हेतुत्वं खण्डघटाद्युत्पत्तिकाले कुलालादिकृतेरसवात् किन्तु कर्तृत्वेन कृतित्वेन वेतीश्वरसिद्धिरिति दीधितिकृतोतंतदयुक्तं,कुलालादिकृतेः स्वप्रयोज्यविजातीयसंयोगसम्बन्धेन तत्कालेऽपि सत्त्वात् ,वैशेषिकनये श्यामघटादिनाशोत्तरं रक्तघटाद्युत्पतिकाले प्राक्तनपरमाणुद्वयसंयोगन्यणुकादिनाशेऽपि पूर्वसंयोगादिध्वंसानामुत्तरसंयोगादौ कालोपाधितयाऽपि जनकत्वात् , तत्कालेऽपि कुलालादिकृतेः स्वप्रयोज्यविजातीयसंयोगेन विद्यमानत्वाविरोधादन्यथा दण्डादिहेतुताया अपि C% For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy