SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिच्छेदः प्रथमः। अष्टसहस्री है सूक्ष्मादिसाक्षात्कारित्वेन संशयित एव विप्रकृष्टस्वभावत्वात् पिशाचादिवत् । इति सूक्ष्मादिसाक्षात्करणस्य प्रतिषेधने संशीतौ वा तावदिदं विवरणम् ॥ विकल्पजालं समानं सिद्धमेव । स हि तत्र प्रतिषेधं संशयं वा साधयन् किमर्हतः साधयेदनर्हतः सामान्यात्मनो वा ? अर्हतश्चेदप्रसि विशेषणः पक्षो व्याप्तिश्च न सिध्येद् , दृष्टान्तस्य साध्यशून्यतानुषगात् । अनर्ह तश्चेत्स एव दोषो बुद्धादेः परस्यासिद्धेरनिष्टानुषङ्गश्व, ॥९७॥ अर्हतस्तत्प्रत्यक्षत्वविधाननिश्चयात् । कः पुनः सामान्यात्मा तदुभयव्यतिरेकेण यस्य विवक्षितार्थप्रत्यक्षत्वप्रतिषेधसंशयौ साध्येते ? इति। तद्वच्छन्दनित्यत्वसाधनेपि समानमेतद्विकल्पजालम् । तथा हि । अयं शब्दानां नित्यत्वं साधयन् सर्वगतानां साधयेदसर्वगतानां वा सामान्यात्मनां वा ? वर्णानां नित्यत्वमकृतकत्वादिना सर्वगतानां यदि साधयति स्यादप्रसिद्धविशेषणः पक्ष इतरथानिष्टानुषङ्गः। कीहक् | पुनः सामान्य नाम यदुभयदोषप्रसङ्गपरिहाराय कल्प्येत ? सर्वगतत्वसाधनेपि समानम् । तद्धि वर्णानाममूर्तानां साधयेन्मूर्तानां तदुभयसामान्यात्मनां वा ? यद्यमूर्तानां सर्वगतत्वं साधयेत्तदाऽप्रसिद्धविशेषणता पक्षस्य । अथ मूर्तानाम निष्टानुषङ्गः कीदृक् पुनः सामान्य नाम यदुभयदोषप्रसङ्गपरिहाराय कल्प्येत ? सर्वगतेतरसामान्यात्मन इव मूर्तेतरसामान्यात्मनोऽसम्भवाद्वर्णेषु । तदयमनुमानमुद्रां सर्वत्र भिनत्तीति नानुमानविचारणायामधिकृतः स्यात् । अविवक्षितविशेषस्य पक्षीकरणे समः समाधिरित्यलमप्रतिष्ठितमिथ्याविकल्पौधैः । यथैव हि शब्दस्याविवक्षितसर्वगतत्वासर्वगतत्वविशेषस्याकृतकत्वादिहेतुना नित्यत्वे साध्ये न कश्चिद्दोषः स्यात्, नाप्यविवक्षितामूर्तत्वेतरविशेषस्य सर्वत्रोपलभ्यमानगुणत्वादिना सर्वगतत्वे, तथैवाविवक्षिताईदनईद्विशेषस्य कस्यचित्पुरुषस्य विप्रकृष्टार्थसाक्षात्करणेपि साध्येनुमेयत्वादिहेतुना न कश्चिद्दोषं पश्यामोन्यत्राप्रतिष्ठितमिथ्याविकल्पौधेभ्यः प्रकृतसाधनाप्रतिबन्धिभ्यः, तेषामप्रतिष्ठितत्वात् , साधनाभासे इव सम्यक्साधनेपि स्वाविषयेवतारात् । ततो निरवद्यमिदं साधनं कस्यचित्सूक्ष्मादिसाक्षात्कारित्वं साधयति । ॥९७n For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy