SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टसहस्री विवरणम् ॥ परिच्छेदः प्रथमः॥ ॥९५॥ शक्यं हि वक्तुं धूमश्च कचित्स्यादग्निश्च न स्यादिति । तदभ्युपगमेऽस्वसंवेद्यविज्ञानव्यक्तिभिरध्यक्षं किं लक्षयेत् प्रमाणतया परमप्रमाणतयेति न किश्चिदेतत् , तया नैतत्तया वा अयमभ्युपगन्तुमर्हति । प्रत्यक्षं प्रमाणमविसंवादित्वादनुमानादिकमप्रमाण, विसंवादित्वादिति लक्षयतोऽनुमानस्य बलाब्यवस्थितेने प्रत्यक्षमेकमेव प्रमाणमिति व्यवतिष्ठते । ततोनुमानमिच्छता याक्षिकेनेव लौकायतिकेनापि प्रसिद्धाविनाभावनियमनिश्चयलक्षणादनुमेयत्वहेतोः सूक्ष्माद्यर्थानां कस्यचित्प्रत्यक्षत्वसिद्धिरेषितव्या । स्यान्मतं, बाधितविषयोऽयं हेतुरनुमानेन पक्षस्य बाधनात् । तथा हि । न कश्चित् सूक्ष्माद्यर्थसाक्षात्कारी, प्रमेयत्वात्सत्त्वाद्वस्तुत्वादस्मदादिवत् । न चेदं साधनमसिद्ध व्यभिचारि वा, प्रत्यक्षाद्यविसंवादित्वात् । तदुक्तं " प्रत्यक्षाद्यविसंवादि प्रमेयत्वादि यस्य तु । सद्भाववारणे शक्तं को नु तं कल्पयिष्यति"॥१॥ इति । तदप्यसम्यक्, तत एव कस्यचित्सूक्ष्माद्यर्थसाक्षात्कारित्वसिद्धेः । सूक्ष्माद्यर्थाः कस्यचित्प्रत्यक्षाः प्रमेयत्वात्सत्त्वाद्वस्तुत्वाद्वा स्फटिकादिवत् । अनुमेयेनात्यन्तपरोक्षेण चार्थेन व्यभिचार इति चेत् , न, तस्य पक्षीकरणात् । तदेवं प्रमेयत्वसत्त्वादियंत्र हेतुलक्षणं पुष्णाति तं कथं चेतनः प्रतिषश्रुमर्हति संशयितुं वा, सूक्ष्माद्यर्थसाक्षात्कारिणस्तस्यैव सुनिश्चितासंभवद्बाधकत्वादस्तित्वसिद्धेरबाधितविषयत्वस्यापि परोपगतहेतुलक्षणस्य प्रकृतहेतोः पोषणात् । ननु च सर्वज्ञस्यास्तित्वे साध्ये सुनिश्चितासंभवदाधकप्रमाणत्वं हेतुः सर्वज्ञभावधर्मश्चेदसिद्धः । को हि नाम सर्वज्ञभावधर्म हेतुमिच्छन् सर्वज्ञमेव नेच्छेत् । सर्वज्ञाभावधर्मश्चेद्विरुद्धः, ततः सर्वज्ञनास्तित्वस्यैव सिद्धेः । सर्वज्ञभावाभावधर्मश्चेव्यभिचारी, सपक्षविपक्षयोवृत्तेः ? तदुक्तम् “ असिद्धो भावधर्मश्चेव्यभिचार्युभयाश्रयः । विरुद्धो धर्मोऽभावस्य स सत्तां साधयेत् कथम्" ॥१॥ इति । धर्मिण्यसिद्धसत्ताके भावाभावोभयधर्माणामसिद्धविरुद्धानकान्तिकत्वात्कथं सकलविदि सत्त्वसिद्धिरिति ब्रुवन्नपि देवानां प्रियस्तद्धर्मिस्वभावं न लक्षयति । स हि तावदेवं सौगतमतमाश्रित्य ब्रुवाणः प्रष्टव्यः । ॥९५॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy