________________
Shri Mahavir Jain Aradhana Kendra
www birth.org
Acharya Sh Kailassagarsur Gyanmandir
क्षाया बुद्धरनुमान, यत इदं शोभेत ? " ज्ञाते त्वर्थेऽनुमानादवगच्छति बुद्धिम्" इति । अर्थापत्तेर्बुद्धिप्रतिपत्तेरदोष इति चेद्, धर्मादिप्रतिपत्तिरपि तत एवास्तु । यथैव हि बहिरर्थपरिच्छित्त्यन्यथानुपपत्तेर्बुद्धिप्रतिपत्तिस्तथा श्रेयःप्रत्यवायाद्यन्यथानुपपत्त्या धर्माधर्मादिप्रतिपत्तिरपि युक्ता भवितुम्। श्रेयःप्रत्यवायादेरन्यथाप्युपपत्तेः क्षीणाऽर्थापत्तिरिति चेत् , न, तदुत्पत्तौ रष्टकारणव्यभिचाराददृष्टकारणप्रतिपत्तेः, रूपादिज्ञानादिन्द्रियशक्तिप्रतिपत्तिवत् । न चार्थापत्तिरनुमानादन्यैव, अनुमानस्यैवार्थापत्तिरिति नामकरणात् । ततो बुद्ध्यादेः शश्वद्विप्रकर्षिणोऽनुमेयत्वसिद्धौ धर्मादेरपि तत्सिद्धिः । ये तु ताथागतादयः सत्त्वकृतकत्वादेरनित्यत्वादिना व्याप्तिमिच्छन्ति तेषां सिद्धमनुमेयत्वमनवयवेनेति न किश्चिव्याहतमसर्वज्ञवादिनां सर्वज्ञवादिनां च, स्वभावादिविप्रकृष्टेष्वर्थेष्वनुमेयत्वव्यवस्थितेः । एतेनात्यन्तपरोक्षेष्वर्थेष्वनुमेयत्वाभावाद्भागासिद्धमनुमेयत्वमित्येतदपि प्रत्याख्यातं, तेषामपि कथञ्चिदनेकान्तात्मकत्वादिस्वभावतयानुमेयत्वसिद्धेः । अथवानुमेयत्वं श्रुतज्ञानाधिगम्यत्वं हेतुः, मतेरनु पश्चान्मीयमानत्वाद्, अनुमेयाः सूक्ष्मादयोर्था इति व्याख्यानान्मतिपूर्वज्ञानस्य श्रुतत्वात् , | "श्रुतं मतिपूर्वम्" इति वचनात् , न चैतदसिद्धं, प्रतिवादिनोपि, सर्वस्य श्रुतज्ञानाधिगम्यत्वोपगमात् । चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्म व्यवहितं विप्रकृष्टमित्वेवंजातीयकमर्थमवगमयितुमलमिति स्वयमभिधानात् । तदुक्तं तत्त्वार्थश्लोकवार्तिके "सूक्ष्माद्यर्थोपि चाध्यक्षः कस्यचित्सकलः स्फुटम् । श्रुतज्ञानाधिगम्यत्वान्नदीद्वीपादिदेशवत् ॥ १॥ न हेतोः सर्वथैकान्तैरनेकान्तः कथञ्चन । श्रुतज्ञानाभिगम्यत्वात्तेषां दृष्टेष्टबाधनात् ॥२॥ स्थानत्रयाविसंवादि श्रुतज्ञानं हि वक्ष्यते। तेनाधिगम्यमानत्वं सिद्धं सर्वत्र वस्तुनि ॥ ३ ॥” इति। ततोऽनुमेयाः सूक्ष्माद्याः कस्यचित्प्रत्यक्षाः सिद्धा एव । तेऽनुमेया, न कस्यचित्प्रत्यक्षाश्च स्युः, किं ब्याहन्यते ? इति समानमग्न्यादीनाम् । अग्न्यादयोनुमेयाः स्युः कस्यचित्प्रत्यक्षाश्च न स्युरिति । तथा चानुमानोच्छेदः स्यात् , सर्वानुमानेषूपालम्भस्य समानत्वात्।
ॐॐॐॐॐ
For Private And Personal Use Only