________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ॥
॥ ८८ ॥
www.kobatirth.org
विशेषे चक्षुराद्यनपेक्षायां चाक्षुषादौ तदपेक्षानियमभङ्गः, कथमिति चेत्, सत्यं पश्यामीत्यनुभवानुरोधेन स्वामविशेषेऽपि चाक्षुषत्वसिद्धेस्तत्र च चक्षुराद्यपेक्षाव्यतिरेकस्य स्पष्टत्वादित्यवेहि, पश्यामीत्यभिलापे विषयताविशेष एव प्रयोजको नतु चाक्षुषत्वं जातिः, स च चक्षुःसन्निकर्षप्रयोज्यो दोषविशेषप्रयोज्यश्चेति न दोष इति चेतु, न, सत्यत्वस्य स्वप्नविशेषणस्याभिधानेन दोषविशेषप्रयोज्यव्यावृत्तेः तादृशविषयताविशेषावच्छिन्नेऽनुगतक्षयोपशमविशेषस्यैव हेतुत्वेनालोकवच्चक्षुषस्तत्रानियतहेतुताया एव युक्तत्वात् द्रव्यचक्षुर्व्यापाराभावेऽपि भावचाक्षुषस्य 'पंचिंदिओव बउलो' इत्यादिदृष्टान्तसिद्धत्वेनापसिद्धान्तायोगादितिदिक् । दोषावरणयोर्हानिर्निश्शेषास्त्यतिशायनात् । क्वचिद्यथा खहेतुभ्यो बहिरन्तर्मलक्षयः ॥ ४ ॥
दोषावरणसामान्ययोर्हांनेः प्रसिद्धत्वाद्धर्मित्वं न विरुध्यते । तत्प्रसिद्धिः पुनरस्मदादिषु देशतो निर्दोषत्वस्य ज्ञानादेश्व कार्यस्य निश्चयाद्भवत्येव, अन्यथा तदनुपपत्तेः । सा क्वचिन्निश्शेषास्तीति साध्यते, वादिप्रतिवादिनोरत्र विप्रतिपत्तेः । अतिशायनादिति हेतुः । क्वचित्कनकपाषाणादौ किट्टकालिकादिवहिरन्तर्मलक्षयो यथेति दृष्टान्तः, प्रसिद्धत्वात् । स हि कनकपाषाणादौ प्रकृष्यमाणो दृष्टो निश्शेषः । तदुद्वद्दोषावरणहानिरपि प्रकृष्यमाणाऽस्मदादिषु प्रतीता सती क्वचिन्निश्शेषाऽस्तीति सिद्धयति । कः पुनर्दोषो नामावरणाद्भिन्नस्वभाव श्चेत्, उच्यते । वचनसामर्थ्यादज्ञानादिर्दोषः स्वपरपरिणामहेतुः । न हि दोष एवावरणमिति प्रतिपादने कारिकाया दोषावरणयोरिति द्विवचनं समर्थम्, ततस्तत्सामर्थ्यादावरणात्पौद्गलिकज्ञानावरणादिकर्मणो भिन्नस्वभाव एवाज्ञानादिदोषोऽभ्यूह्यते । तद्धेतुः पुनरावरणं कर्म जीवस्य पूर्वस्वपरिणामच । स्वपरिणामहेतुक एवाज्ञानादिरित्ययुक्तं, तस्य कादाचित्कत्वविरोधाज्जीवत्वादिवत्, परपरिणामहेतुक एवेत्यपि न व्यवतिष्ठते, मुक्तात्मनोपि तत्प्रसङ्गात्, सर्वस्य कार्यस्योपादानसहकारिसामग्रीजन्यतयोपगमात्तथा प्रतीतेश्च । तथा च दोषो
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः प्रथमः ॥
॥ ८८ ॥