SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir % % % मर्थः । यथा सर्वदाह्यदाहकत्वं वढेः स्वभावो मणिसम्बबूकरतलादावदाहस्तु ततः प्रतिबन्धककृतस्तथा सर्वज्ञेयावभासित्वं चिदात्मनः स्वभाव एव, छद्मस्थे तत्प्रतिबन्धस्तु प्रतिबन्ध कृत इति, सकलतदपगमेऽर्थसिद्धमेव भगवतः सर्वज्ञत्वमिति । अत एवाक्षानपेक्षेति (४७-१-६) भाष्यप्रतीके भवभृत्प्रभोरिति योजनीयम् , तदावरणेति (४७-१-१०) अक्षापेक्षा हि ज्ञाने विषयस्पष्टत्वार्थ तच्चावधिमनःपर्याययोःक्षयोपशमातिशयादेवेति तयोस्तदनपेक्षत्वेऽपिन क्षतिरिति भावः । स्वविषये परिस्फुटत्वादिति ब्रूम इति (४७-१-२१) तथा च प्रत्यक्षत्वे स्पष्टतैव प्रयोजिका,साच द्विविधा, सकलस्पष्टता देशस्पष्टताच, आद्यायामावरणक्षयः प्रयोजकः, द्वितीयायां च क्वचिदिन्द्रियं क्वचिद्गुणविशेषः,मतिश्रुतयोः परोक्षत्वनये तु गुणविशेष एवेति मन्तव्यम्।। __एवं सति प्रकृते प्रयोजकत्वं स्यादक्षापेक्षत्वेऽपि गुणविशेषादतिस्पष्टत्वसम्भवादित्याशक्य समाधत्ते-न चैवं साकल्येनेत्यादिना (४७-१-११) एवमवधिज्ञानमनःपर्यायज्ञानयोरक्षानपेक्षत्वे तत्साधर्म्यण केवलज्ञानस्य तथात्वप्राप्तौ भगवत्प्रत्यक्षमक्षानपेक्षं साकल्येन विरतव्यामोहत्वात् सर्वदर्शनत्वाद्वा यन्नैवं तन्नैवं यथाऽस्मदादिप्रत्यक्षमिति व्यतिरेकिणि हेतोरनैकान्तिकत्वमप्रयोजकत्वं न शङ्कनीयम् , कुत इत्याह-'विपक्षइति' (४७-१-१२) अवधीति च, उभाभ्यामक्षापेक्षत्वस्य स्पष्टताप्रयोजकत्वं खण्डितं भवति, तथा चाक्षापेक्षत्वं देशस्पष्टत्वेऽपि न प्रयोजकं किं पुनः सर्वस्पष्टत्वइति, हेतुसत्त्वे साध्यासत्त्वे प्रकृते सर्वस्पष्टत्वानुपपत्ति धकस्तर्क इति नाप्रयोजकत्वमिति भावः। न चापेक्षत्वेऽपि गुणविशेषात् सर्वस्पष्टत्वोपपत्तिः केवलज्ञानोत्पादकगुणस्यैव लाघवादिन्द्रियसंस्कारनाशकत्वेन तस्य तद्विरुद्धत्वादिति द्रष्टव्यम् , विकलप्रत्यक्षस्येति (४७-१-१४) पारमार्थिकप्रत्यक्षमात्रस्य पक्षीकरणे तु भागासिद्धतयाऽस्याहेतुत्वं स्यादेवेत्यर्थः। तर्हि सत्यस्वन (४७-२-३) इति, नन्वेवं स्वामज्ञान % % For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy