________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
SAGAR
विषयमाहात्म्यादीनां विशेष्यग्रहसामग्रीत्वेनानुगतानां हेतुत्वमित्यपि व्याख्यातम् । तत्रौपधायकतासम्बन्धेन विलक्षणक्षयोपशमवत्त्वस्यैव सामग्रीपदार्थत्वात् , तस्या यावत्कारणरूपत्वेऽतीतानागतकतिपयचक्षुःसन्निकर्षाभावे चाक्षुषानुपपत्तेः, एतेनैव तद्व्यक्तिविषयकचाक्षुषे तद्व्यक्तिचक्षुःसंयोगत्वेनैव व्यासज्यवृत्तिधर्मप्रत्यक्षानुरोधेन कारणता कल्प्यते तत एव तद्व्यक्तिवृत्तिगुणकर्माभावचाक्षुषनिर्वाहाच्चक्षुःसंयुक्तसमवायादिप्रत्यासत्यकल्पनलाघवादिति नवीननैयायिकोक्तमप्यपास्त, सामान्यलक्षणादिप्रत्यासत्याऽसनिकृष्टतद्व्यक्तिविषयकप्रत्यक्षवारणाय तद्व्यक्तिनिष्ठलौकिकविषयताशालित्वस्य कार्यतावच्छेदककोटाववश्यनिवेशनीयतया तद्व्यक्तिनिष्ठायास्तद्गतगुणकर्माभावादिनिष्ठायाश्च लौकिकविषयताया नियमाय तव प्रत्यासत्तिविशेषस्य मम तत्स्थाने क्षयोपशमविशेषस्य च हेतुताया आवश्यकत्वात् । किश्च व्यासज्यवृत्तिधर्मस्य घटाकाशसंयोगादेर्गुरुत्वादिवदयोग्यत्वादेव न प्रत्यक्षं, चक्षुःसंयुक्ततदसंयुक्तघटपटसंयोगाप्रत्यक्षत्वस्य तु नोक्तकार्यकारणभावादपि निर्वाहः, संयो| गादिप्रत्यक्षस्य यावदाश्रयविषयकत्वनियमोक्तावपि परस्परानवच्छेदकावच्छेदेन घटचक्षुःसंयोगपटचक्षुःसंयोगोभयसत्वे घटपटसंयोगादिप्रत्यक्षापत्तेर्दुरित्वात् , स्वावच्छेदकावच्छिन्नघटवृत्तिपटसंयोगावच्छेदकावच्छिन्नत्वसम्बन्धेन घटचक्षुःसंयोगविशिष्टपटचक्षुःसंयोगत्वादिना तद्धेतुत्वे तु विनिगमनाविरहादनन्तकार्यकारणभावापत्तेश्च महागौरवं, तस्माद्रव्यसमवेताव्याप्यवृत्तिप्रत्यक्षे व्याप्यवृत्तेरप्यवच्छेदकस्वीकारे वा द्रव्यसमवेतप्रत्यक्षत्वावच्छिन्न एव चक्षुःसंयोगावच्छेदकावच्छिन्नसमवायसम्बन्धावच्छिन्नाधारतानिरूपकत्वस्य प्रत्यासत्तित्वं परस्य वक्तुमुचितमिति यत्किश्चिदेतत् , वस्तुतो द्रव्यविषयकचाक्षुषस्य सामग्र्यैव न तवृत्तिगुणकर्माभावप्रत्यक्षनिर्वाहो, द्रव्याविषयकस्यापि परमाणुवायवोर्महत्त्वरूपाभावचाक्षुषस्य परैरभ्युपगमा
For Private And Personal Use Only