________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्त्री विवरणम् ।।
॥ ८६ ॥
www.kobatirth.org
पर्यायश्चार्थसंज्ञकः ॥ १॥” इति, तारकाञ्जनवदिति (४७-१-२) तारका अञ्जनं च तारकाञ्जने ते इव तद्वदिति समासः । ' सा पुनर्योग्यतेति' (४७-१-३) नन्वेवं द्रव्यचाक्षुषादौ तत्प्रतिबन्धक कर्मक्षयोपशमत्वादिना हेतुता वाच्या, तद्धेतुता च चक्षुःसन्निकर्षादेरेवेति तद्धेतोरित्यादिन्यायेन प्रत्यक्षे इन्द्रियार्थसन्निकर्षस्य हेतुत्वं युक्तमिति चेत्, न । तत्रापि तद्धेतोरित्यादिन्यायस्य सुलभत्वेनान्तरङ्गप्रत्यासत्तेः क्षयोपशमहेतुतायामेव विनिगमकत्वात्, एतेन स्थैर्यपक्षे विषयनिष्ठाया योग्यताया अपरावृत्तेर्नयनसन्निकर्षस्याहेतुत्वे भित्त्याद्यावृतस्य चाक्षुषापत्तिरित्यादिकमपास्तम्, आवृतचाक्षुषजनकक्षयोपशमवतां तदापत्तेरिष्टत्वात्, अनावृतचाक्षुषे चाचरणेनैव क्षयोपशमप्रतिबन्धात्, अपरेषां तु दिव्याञ्जनादिसंस्कृतचक्षुषामनुभूयमानभित्याद्यावृतचाक्षुषानुपपत्तिः, तत्र चाक्षुपत्वापलापे च घटादिज्ञानेऽपि तदपलापप्रसङ्गो विकल्पज्ञानस्य सर्वस्य समानसत्ताया एव युक्तत्वात्, किश्च प्रत्यासत्तिहेतुतावादिना नेत्राञ्जनसूक्ष्मतारकाद्यप्रत्यक्षत्वायात्यासच्यतिदूरत्वयोर्दोषत्वं वाच्यम्, आदर्शसाम्मुख्याञ्जनादिसन्निधाने च तत्प्रत्यक्षत्वाय तत्तद्विषये तदभावविशिष्टतत्तदा सत्यतिदूरत्वाभावस्य चाक्षुषहेतुत्वं वाच्यमित्यतिगौखं, मम तु क्षयोपशमे विशिष्य हेतुता, चाक्षुषादौ तु विलक्षणक्षयोपशमत्वेनैव समानविषयत्वप्रत्यासत्येति लाघवं किञ्चेन्द्रियप्रत्यासत्तेरपि क्षयोपशमाधायकतयैव प्रत्यक्षहेतुता वाच्या, असंख्येयसमयप्रविष्टानामेव पुद्गलानां ग्रहणयोग्यतायाः पारमर्षेऽभिधानात् सकृत्सम्बन्धे बोधाननुभवेन तस्य च यौक्तिकत्वादसङ्ख्येयैश्च समयैः क्षयोपशमपुष्टेरेव सिद्धेः तथा च योग्येन्द्रियविषयसम्बन्धानकामेनापि क्षयोपशमहेतुत्वेनानुगमय्य प्रत्यक्षहेतुतां वदता विलक्षणक्षयोपशमत्वेनैव हेतुतायां किं लाघवं नोद्वीक्ष्यते, एतेन तुरगादौ वेगेन गच्छतो युगपदनेकवृक्षसन्निकर्षेऽपि क्वचिदेव प्रतिनियतधर्मप्रकारकग्रहो नान्यत्रेति नियमाय चक्षुः सन्निकर्ष
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः प्रथमः ॥
| ॥ ८६ ॥