SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavirlain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir पुरुषत्वव्याप्यवानयमिति ज्ञानादपि पुरुषत्वसन्देहनिवृत्तेः, एवं च संशये कोट्यंशे विरुद्धत्वकोटितावच्छेदकयोरेकत्र द्वयमिति रीत्या भानोपगमात्तस्योपदर्शितप्रतिबन्धकतावच्छेदकद्वयान्यतरानाक्रान्तत्वेनानुपपत्तेरभाव इति रघुदेवोक्तमपि, तदभावव्याप्यतिरिक्तनिष्ठप्रकारत्वानिरूपितत्वापेक्षया तदभावव्याप्तिनिष्ठप्रकारतानिरूपितत्वनिवेश एव लाघवाच्च, अन्यथैकत्र द्वयमिति रीत्या तदभावव्याप्तिकरत्वाद्यवगाहिनो विशेषदर्शनस्य तद्वत्ताज्ञानप्रतिबन्धकत्वानुपपत्तेरिति दिक । अयं स्थाणुर्वा पुरुषो वा ? इत्यत्रापि स्थाणुत्वतदभावपुरुषत्वतदभावरूपकोटिचतुष्टयशाल्येव संशयः स्वीक्रियते, तादृशवाक्यादिदंपदाद्धर्मिणः स्थाणुपुरुषपदाभ्यां स्थाणुत्वपुरुषत्वयोर्वाकारद्वयेन चाभावद्वयस्योपस्थितेः, केवलं स नव्यमते शाब्दः, जीर्णनैयायिकमते चोपनयसहकारेण मानस इति विशेष इति नानुपपत्तिः, अन्ये त्वेकधमिणि विरुद्धनानाधर्मप्रकारकज्ञानं संशय इति संशयलक्षणं ब्रुवते, तन्मते स्थाणुर्वा पुरुषो वेत्येयं द्विकोटिक एव संशयः, विरोधज्ञानं च तन्मते संशयकारणमिति मन्तव्यम् , तल्लक्षणा र्थश्चैकधर्मितावच्छेदकविशिष्टविशेष्यकत्वावच्छेदेन विरुद्धत्वेन नानाधर्मप्रकारकत्वम् , तेन दपर्वतौ वह्नितदभाववन्ता| वित्यादेः शुक्ताविदं रजतमेतद्रूपवच्चत्यादेघटो द्रव्यं पृथिवी चेत्यादेश निरासः, एकधर्मिकविरुद्धनानाप्रकारकज्ञान। त्वरूपं कोटिद्वयविरोधभानसामग्रीसमाजाधीनं संशयत्वं नील घटत्ववन्न कार्यतावच्छेदकम् , एवं संशयत्वशून्यज्ञानत्वरूप। निश्चयत्वमपि नीलत्वशून्यघटत्ववत्तथेति दीधितिकृतः, न चैवं धर्मिज्ञानमन्तरेण निश्चयवत् संशयोऽपि स्यादिति वाच्यम् , सति धर्मीन्द्रियसन्निकर्षे इष्टत्वात् , क्वचिद्धर्मिज्ञानस्य धर्मीन्द्रियसन्निकर्षविधयवोपयोगात्, कोट्युपस्थितेरपि विशेषणज्ञानमुद्रया विशिष्टबुद्धित्वावच्छिन्न एवापेक्षा, विशेषणज्ञानाहेतुत्वे तु तत्कोटीन्द्रियसन्निकर्ष एवापेक्षितो, नतु --- - - -- - For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy