________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
अष्टसहस्री विवरणम् ॥ ॥५६॥
( २८. १. १२) तदभिन्नतया विशेषस्यापि प्रत्यक्षसिद्धत्वादितिभावः । 'युक्तस्तत्र सन्देह इति' (२९. १.८) परिच्छेदः उक्तनीत्या सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षादनेकविशेषस्मरणाच्च संशय इति प्रागुक्तार्थस्य नियूंढत्वादिति भावः । अत्र
प्रथमः॥ सामान्यप्रत्यक्षं धर्मिज्ञानविधया विशेषाप्रत्यक्षं विशेषादर्शनविधयाऽनेकविशेषस्मरणं च कोटिद्वयोपस्थितिविधया संशयकारणमिति मन्तव्यम् । ननु कोठ्योर्विरोधज्ञानमपि संशयकारणमस्ति तत्कुतो नोत्कीर्तितमिति चेत्, सत्यम् , संशये तदधिकरणावृत्तित्वरूपो विरोधो न प्रकारस्तथा सति तस्य तदभावव्याप्तिपर्यवसायित्वेन तदभावव्याप्यवत्तानिश्चयरूपसंशयप्रतिबन्धकसत्त्वात्तदभावस्य च कार्यसहभावेन हेतुत्वात् संशयमात्रस्य दुर्लभत्वापत्तेः, न च तदभावव्याप्यवत्तानिश्चयत्वं तदभावाप्रकारकत्वघटितम् , गौरवात्, अन्यथा वह्नयभावव्याप्यव्याप्यवान् वहिव्यायवान् पर्वत इति परामर्शात् पर्वतो वह्निमान् तदभावव्याप्यवांश्चेति संशयरूपाया अनुमितेर्दुरित्वापत्तेः, किन्तूक्तविरोधः संशये संसर्गतया भासते, तस्य च पूर्वमुपस्थिति पेक्षितेति विरोधज्ञानस्य संशयहेतुत्वोत्कीर्तनायोगात् । किञ्च विरोधाविषयकैकधर्मिकस्थाणुस्वतदभावप्रकारकज्ञानेऽपि संशयव्यवहारात् , अन्यथा तस्य संशयान्यत्वे ततो निश्चयकार्यापत्तेः, संशये न विरोधविषयकत्वस्पर्शोऽपीत्यलं तत्र तज्ज्ञानहेतुत्वशङ्कया । एतेन तद्वत्ताग्रहप्रतिबन्धकग्रहविषयत्वरूपस्य विरोधस्यापि प्रकारतया संसर्गतया च संशये भानमपास्तम् । अपास्तं च तद्वत्ताबुद्धिं प्रति तदभावव्याप्यवत्ताज्ञानस्य प्रतिबन्धकत्वमेकं तदभावव्याप्तिप्रकारतानिरूपिततद्धावच्छिन्नविशेष्यताशालिनिर्णयविशिष्टतद्धर्माविच्छिन्नप्रकारताशालिनिर्णयत्वेन, पुरुषत्वव्याप्यं करादि करादिमांश्चायमिति ज्ञानद्वयादपि पुरुषत्वसन्देहनिवृत्तेः, अपरं च तदभावव्याप्त्यतिरिक्तनिष्ठप्रकारत्वानिरूपितप्रकारताशालिनिर्णयत्वेन,
IMil॥५६॥
For Private And Personal Use Only