________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्री विवरणम् ।।
www.kobatirth.org
दाकारेणैव शाब्दबोध इति दिक् । किं नेष्यत इति, ( २३.२.११ ) आख्यातार्थतयेति शेषः तथा च लिङादीति, अत्र क्रियामात्रमर्थभावना, लिङादिनिष्ठा प्रवर्त्तना तु किं कथं केनेत्यंशत्रयवती शब्दभावनेति विशेषः । तदुक्तम्, “ लिडोsभिधा सैव तु शब्दभावना, भाव्यं तु तस्याः पुरुषप्रवृत्तिः । सम्बन्धबोधः करणं तदीयं, प्ररोचना चाङ्गतयोपयुज्यते " ॥ १ ॥ ॥ ५५ ॥ इति । ननु चेत्याद्यारभ्य प्रज्ञाकर इत्यन्तो ( २४. १.७ ) बुद्ध्याकार एव नियोगो भावना वा लिङाद्यर्थो
इति सौगतस्य पूर्वपक्षः, सोऽपि न परीक्षक इत्यादिना प्रत्यक्षवच्छब्दस्य मुख्यमर्थग्राहित्वं प्रवर्त्तकत्वं च, अन्यथा तस्यापि तन्न स्याद्विकल्पेनान्यथासिद्धेः, भावीष्टसाधनताया दुर्ग्रहत्वस्य चोभयत्र तुल्यत्वादित्यादिप्रतिबन्द्या तन्निरासः । भावनाविशेषणत्वेनेति, ( २४. २. ७) तथा च भावनान्वययोग्ये कर्मत्वाद्यनवरुद्धप्रथमान्तपदोपस्थाप्ये लिङर्थसंख्यान्वय इति कर्तृगतसङ्ख्याभिधानानभिधानाभ्यामेवाभिहितानभिहिताधिकारीयव्यवस्थेति नानुपपत्तिरिति भावः । भावनैक्याद्विवचनबहुवचनाप्राप्तेर्वक्ष्यमाणदोषस्याप्येतदेव समाधानं द्रष्टव्यम्, भावनान्वयिनो द्वित्वादिना द्विवचनाद्युपपत्तेः । तस्य कर्तृभेदाद् भेद इति, ( २५. २. ७ ) तस्य प्रत्ययार्थस्य स्वान्वययोग्यभेदाद् भिन्नसंख्यान्विततदन्वयित्वमित्यर्थः । न कारकभेदाद् भेदीति, ( २६. १. १ ) न संख्याभेदाश्रयकारकान्वयित्वेन भिन्नस्वरूप इत्यर्थः । आख्यातार्थसंख्यान्वयिकारकस्याख्यातेनैव समं साकाङ्गत्वादिति भावः । तथा च चैत्रमैत्राभ्यामास्यत इत्यत्राख्यातार्थसङ्ख्यायाः कारकानन्वितत्वाच्छाब्दन्यायेनौत्सर्गिकमेकवचनम्, धात्वर्थे त्वव्युत्पत्तेरेव न तदन्वयः, आर्थन्यायेन कथञ्चित्तत्र तदन्वयस्वीकारेऽपि सम्प्रदायविरुद्धत्वादेव न द्वित्वादिविवक्षया द्विवचनादिकमिति मन्तव्यम्, कारकद्वयसम्बन्धादिरूपमेव द्वित्वादिकमाख्यातद्वि
ब् ल
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
परिच्छेदः प्रथमः ॥
॥ ५५ ॥